________________
परिशिष्टम् -२
६३५ क्षयवृद्धी, लघुदीक़, दीर्घलघू, गतिहिंसे, हिंसागती, शीधुसुरे, सुराशीधुनी, व्रीहिकालौ, कालव्रीही, हेतुलक्षणे, लक्षणहेतू, दीप्तिभर्त्सने, भर्त्सनदीप्ती, गतिनिवासौ, निवासगती, तन्तुबीजे, बीजतन्तू' इत्यादि । द्वयोरिति किम् ? चन्द्रार्कवायवः, तुरुत्तरत्र वानिवृत्त्यर्थः ।। १३५।
१३६. मासर्तुनक्षत्राणि तुल्यस्वराण्यानुपूर्येण चैत्रवसन्ताश्विनीरुपक्रम्य एषामानुपूर्यं द्वयोर्द्वन्द्वे तुल्यस्वराणि मासादीनि अनुक्रमेण पूर्वाणि भवन्ति । पौषमाघौ, चैत्रभाद्रौ, हेमन्तशिशिरौ, वसन्तनिदाघौ, अश्विनीभरण्यौ, अश्विनीरेवत्यौ, चित्रास्वाती, कृत्तिकारोहिण्यः। तुल्यस्वराणीति किम् ? शुक्रमाधवौ, इषभाद्रपदौ, ज्येष्ठवैशाखौ, पौषमार्गशीर्षों, ग्रीष्मवसन्तौ, वर्षाहेमन्तौ, ज्येष्ठाभरण्यौ । द्वयोरिति किम् ? शुचिशुक्रचैत्राः, शरद्ग्रीष्पवर्षाः, श्रवणधनिष्ठाश्विन्यः ।। १३६।
१३७. भ्राता च द्वयोर्द्वन्द्वे भ्राता चानुक्रमेण पूर्वो भवति । भीमसेनार्जुनौ, लक्ष्मणशत्रुघ्नौ, नासत्यदनौ । द्वयोरिति किम् ? नकुलार्जुनभीमाः ।।१३७।
१३८. न तण्डुलकिण्वादौ तण्डुलकिण्वादौ द्वन्द्वेऽल्पस्वरादिकं पूर्वं न निपतति । 'तण्डुलकिण्वे, चित्ररथबाह्लीकौ, स्नातकराजानौ, उशीनरभोजौ, उदूखलमुसले, प्रतिष्ठालिप्से' इत्येवमादिषु अल्पस्वरं न पूर्वम् । 'नरनारायणौ, काकमयूरो, उमामहेश्वरौ, पार्वतीशङ्करौ, मातापितरौ, श्वश्रूश्वशुरौ' इत्यादावर्चितं न पूर्वम् । पाण्डुधृतराष्ट्रादिषु ज्येष्ठो न पूर्वम् । 'जायापती, भार्यापती, पुत्रपशू, केशश्मश्रू, शिरोजानु, तिष्यपुनर्वसू, मर्यादाभिविधी' इत्यादावग्न्यन्तं न पूर्वम्, 'जम्पती' इति जम् - दम्भावश्च निपातनाद् वा । 'विष्वक्सेनार्जुनौ, शूद्रा?, अवन्त्यश्वकौ, वासुदेवार्जुनौ, देवासुरौ, वातातपौ, हस्त्यश्वम्' इत्यादौ स्वराद्यन्तं न पूर्वम् । 'मेधातपसी, दीक्षातपसी' इत्यादौ लघुमात्रस्वरं न पूर्वम् । 'शुचिशुक्लौ' इत्यादौ नानुपूर्व्यात् पूर्वम् ।। १३८ ।
१३९. राजदन्तादीनि परस्य पूर्वत्वे राजदन्तादीनि समासरूपाणि साधूनि भवन्ति । दन्तानां राजा राजदन्तः, रात्रीणां गणः गणरात्रम्, कण्ठे श्रीरस्य श्रीकण्ठः, ऋणे उत्तमः