________________
कातन्त्रव्याकरणम्
६३६
उत्तमर्णः, ऋणेऽधमः अधमर्णः, अप्सु लोलति लुलापः, बाणं वारयति बारबाणम्, अन्तरमन्यद् गृहं गृहान्तरम् । एवं पुरुषान्तरम्, शाखान्तरम् । श्वो भाविदिनात् परः परश्वः । विप्रतिषेधे पूर्वं पूर्वविप्रतिषेध इत्यादिराकृतिगणोऽयम् || १३९ |
१४०. षष्ठ्याऽव्ययीभावः षष्ठ्यन्तेन सहाव्ययीभाव इत्यधिक्रियते || १४०|
१४१. समृद्ध्यादिष्वव्ययस्य
समृद्ध्यादिष्वर्थेषु वर्तमानस्याव्ययस्य षष्ठ्यन्तेन सहाव्ययीभावो भवति । नित्यसमासविषयाणामव्ययानां वाक्येऽपि पुरस्तादप्रयोगः । नियतप्रयोगा हि केचिदव्यया इति विकल्पाश्रुतौ नित्यमव्ययीभावः । अधिका ऋद्धिः समृद्धिः, समृद्धिर्मद्राणां सुमद्रम् | समीपे - उपग्रामम् । ऋद्ध्यभावे निःक्षत्रियम्, दुःक्षत्रियं वर्तते । नञर्थे - निर्मक्षिकम् इहेति भोक्ष्यामहे । अतीतत्वे - शीतस्यात्ययः अतिशीतम् । ग्रीष्मे सम्प्रत्यनुपभोगे अतिकम्बलम्, निदाघश्चेत् अतिक्षीमम् । हेमन्तश्चेत् । नामख्यातौ पाणिनेर्नामख्यातिरितिपाणिनि, तत्पाणिनि । पश्चादर्थे - अनुशकटम् । योग्यतायां - यथा अनुरूपं विक्रामति । रूपस्य योग्यतयेत्यर्थः । अनतिक्रमे - यथाधर्मम् । अनुक्रमे - अनुज्येष्ठम्, यथाज्येष्ठम् || १४१ ।
१४२. यावतः संख्याने
संख्यानविषये यावतोऽव्ययस्य षष्ठ्यन्तेन सहाव्ययीभावो भवति । यावदासनं विप्रानुपवेशय, आसनानां संख्ययेत्यर्थः । परिमाणेऽपीच्छन्त्ये यावच्छिखरं बलाकाः । संख्यान इति किम् ? यावच्छात्राणां दत्तम्, निःशेषेण दत्तम् इत्यर्थः । कार्त्स्न्येऽत्र यावच्छब्दः ।। १४२ ।
१४३. सहस्य साकल्ये
—
यदर्थं यद् गृहीतं तत्र तस्याशेषत्वमिह साकल्यम् । तत्र वर्तमानस्य सहस्य षष्ठ्यन्तेन सहाव्ययीभावो भवति । सधान्यं सतुषम् अश्नाति भक्तम् || १४३।