________________
६३७
परिशिष्टम् - २
१४४. अन्तत्वे च अन्तत्वे च वर्तमानस्य सहस्य षष्ठ्यन्तेन सहाव्ययीभावो भवति । सवार्त्तिकमधीतम्, सूत्रादिकमधीत्य वार्तकम् अधीतम् । वार्त्तिकमधीत्य न किञ्चिदधीतमित्यर्थः । अध्येयग्रन्थेषु वार्त्तिकस्यान्तत्वं विवक्षितमिति कुतोऽत्र साकल्यम् ।। १४४ ।
१४५. स्वभावसम्पद्योगपयसदृशसादृश्येषु एष्वर्थेषु वर्तमानस्य सहस्य षष्ठ्यन्तेन सहाव्ययीभावो भवति । स्वस्य भावः स्वभावः, समासविषयस्य ब्रह्मादिशब्दस्य प्रवृत्तिनिमित्तं ब्रह्मत्वक्षत्रियत्वादि, तस्य सम्पत्तिरुत्कृष्टता सब्रह्म दण्डिनाम्, सक्षत्रियं गौरवाणाम् । ब्रह्मत्वं क्षत्रत्वं चोत्कृष्टमित्यर्थः । यौगपद्ये - सघृतं तिलान् जुहोति, सकुमारं कन्यां भोजय । सदृशेसदृशी किख्याः सकिखि मार्जारी । सादृश्ये - सादृश्यं किख्याः सकिखि मार्जारिकायाः । यथा ब्राह्मण इति अषष्ठ्यन्तत्वाच्च । अस्य रूपो यथा ब्राह्मणस्येति षष्ठ्यन्तेन च न स्यात्, सादृश्यसंबन्धेनेयं षष्ठीति ।। १४५।
१४६. संख्यायाः परिणा द्यूतेऽन्यथावृत्तौ द्यूतविषयेऽन्यथावृत्तौ वर्तमानेन परिणा सह षष्ठ्यन्तस्य संख्याशब्दस्याव्ययीभावो भवति । अक्षादीनां क्रीडनकद्रव्याणां पातयितुः पराजयसाधनी पातनादिक्रिया अन्यथावृत्तिः । एकपरि, द्विपरि, त्रिपरि पञ्चिकायाः । एकस्य क्रीडनकद्रव्यस्य द्वयोस्त्रयाणां वा पञ्चिकाख्ये द्यूते अन्यथावृत्तिरिति ।। १४६।
१४७. अक्षशलाकयोरेकत्वे एकत्वे वर्तमानयोः षष्ठ्यन्तयोरक्षशलाकयो तेऽन्यथावृत्तौ वर्तमानेन परिणा सहाव्ययीभावो भवति । एकस्याक्षस्य द्यूतेऽन्यथावृत्तिः। अक्षपरि, शलाकापरि । परिशब्दस्य नित्यवृत्तिविषयत्वादन्यपदेन विग्रहः । केषांचित् संख्याक्षशलाकानां तृतीयान्तानामेवैष विधिः ।। १४७।
१४८. वा त्वग्रे पारे मध्येऽन्तरः अग्रेप्रभृतेः षष्ठ्यन्तेन सहाव्ययीभावो भवति वा । अग्रे द्वीपस्य, अग्रेद्वीपम्, पारे गङ्गायाः, पारेगङ्गम् | मध्ये तडागस्य, मध्येतडागम् । अन्तः पल्ललस्य, अन्तःपल्ललम् | तुशब्द उत्तरत्र वानिवृत्त्यर्थः ।। १४८।