________________
कातन्त्रव्याकरणम्
१४९. सामीप्येऽन्वादेः
समीपे वर्तमानस्यान्वादेः षष्ठ्यन्तेनाव्ययीभावो उपगङ्गम् | अन्वादेरिति किम् ? अमा कुम्भस्य घटी, केचिद् इह परिगणनं नाद्रियन्ते || १४९ ।
१५०. प्रतिनाऽल्पांशे
अल्पांशे वर्तमानेन प्रतिना षष्ठ्यन्तस्याव्ययीभावो भवति । शाकप्रति, सूपप्रति । अनयोरल्पांश इत्यर्थः । अव्ययीभावस्यानव्ययत्वादग् न भवति ।। १५०। १५१. वीप्सायां च
६३८
भवति । अनुगङ्गम्,
आरादोष्ठस्य नासा ।
वीप्सायां चार्थे वर्तमानस्य पूर्वस्याव्ययस्य परेण नाम्ना सहाव्ययीभावो भवति । उपात्तस्य वस्तुनस्तदात्मभिर्युगपदेकक्रियासम्बन्धो बीप्सेति रूढिः । वृक्षं वृक्षं प्रति यथावृक्षम् | कर्मप्रवचनीयानां तु संज्ञाविधानबलाद् विभाषैव - प्रति वृक्षं वृक्षम्, प्रतिवृक्षम् । समासो द्वित्वं बाधते निरवकाशत्वान्नित्यसमासविषयत्वे पुरस्तादव्ययोर्पापातः । चूतं चूतमभि, अभिचूतं कोकिलाः । एवम् अनुवृक्षम् परिवृक्षम्, अभिवृक्षम् || १५१ ।
१५२. अधिकरणे
अधिकरणे वर्तमानस्याव्ययस्य परेण नाम्ना सह अव्ययीभावो भवति । अधिखट्वं शेते, खट्वायां शेते इत्यर्थः । ' अधिरजनि जगाम धाम तस्याः' इति निपाताभिहितेऽपि न द्वितीयादयः, प्रथमैवेति मतम् इति प्रथमान्तेनायं समासः । कृदादिभिरभिहिते प्रथमेति मतं चेत् सप्तम्यन्तेनायं समासः । केचिद् अधिकरणशक्तिप्रधानानामव्ययानां षष्ठ्यन्तेनाव्ययीभावमिच्छन्ति तदा रात्रौ - नक्तं-दिवा- सायम्' प्रभृतीनाम् अपादानादी च शाखाया अपगतोऽपशाखमित्यादिकमिच्छन्ति, न तद्
वृद्धसम्मतम् ।। १५२ ।
१५३. वा पञ्चम्याङपपरिबहिरन्चूनाम्
एषामव्ययानां पञ्चम्यन्तेनाव्ययीभावो भवति वा । अप त्रिगर्तेभ्योऽपत्रिगर्तम्, आपाटलिपुत्रादापाटलिपुत्रम्, परित्रिगर्तेभ्यः परित्रिगर्तम् । बहिर्ग्रामात्, बहिर्ग्रामम् । प्राग् ग्रामात्, प्राग् ग्रामम् । प्रत्यग् ग्रामात् प्रत्यग् ग्रामम् ।।१५३।