________________
६३९
परिशिष्टम् -२
१५४. प्रत्यभेस्तु लक्षणेनाभिमुख्ये आभिमुख्ये वर्तमानस्य प्रतेरभेश्च लक्षणीभूतेन सहाव्ययीभावो भवति । प्रत्यग्नि शलभाः पतन्ति, अभ्यग्नि शलभाः पतन्ति । अग्नि लक्ष्यीकृत्य तदभिमुखं पतन्तीत्यर्थः ।।१४८।
१५५. अनोयेण दैर्येण धर्मेण लक्षणीभूतं यत् तेन सहानोरव्ययीभावो भवति । अनुगङ्गं वाराणसी, दीर्घया गङ्गया इह दीर्घा वाराणसी लक्ष्यते, गङ्गावद् दीर्घा वाराणसीत्यर्थः । एवम् अनुबिन्ध्यं दण्डकाः, अनुशिप्रं विशाला || १५५।
१५६. वाऽपत्येन द्विप्रभृतेः अपत्यप्रत्ययान्तेन सह द्विप्रभृतेरव्ययीभावो भवति वा । द्वौ गाग्र्यो, द्विगाय॑म् । दश भारद्वाजाः, दशभारद्वाजम् । द्विप्रभृतेरिति किम् ? एकभारद्वाजः । कर्मधारय एव स्यात् ।। १५६।
१५७. आचार्येण आचार्येण सह द्विप्रभृतेः संख्याया अव्ययीभावो भवति । शास्त्रस्य प्रणेता इहाचार्यः । द्वौ मुनी आचार्यावागमस्य द्विमुनि । त्रयो मुनय आचार्या व्याकरणस्य त्रिमुनि । मुनेराचार्यत्वमिह वृत्त्याविर्भाव्यते । द्विप्रभृतेरित्येव - एकमुनिर्भाष्यस्य || १५७।
१५८. वा त्वन्यार्थे आचार्येण सह द्विप्रभृतेः संख्याया अन्यार्थेऽव्ययीभावो भवति वा । द्वौ मुनी आचार्यावस्या इति द्विमुनि शब्दानुशिष्टिः, द्विमुनिर्वा । त्रिमुनि, त्रिमुनिर्वा । द्विप्रभृतेरित्येव - एकमुनिरष्टाध्यायी बहुव्रीहिरेव स्यात् ।। १५८।
१५९. रूढौ दु नया रूढिविषये नद्या सहान्यार्थे नित्यम् अव्ययीभावो भवति । उत्तमगङ्गम्, लोहितगङ्गम्, तूष्णींगङ्गं देशः ।। १५९।
१६०. तस्य समाहारे च तस्य स्मृतस्य द्विप्रभृतेः समाहारे चार्थे नद्या सहाव्ययीभावो भवति । द्विगङ्गम्, त्रियमुनम्, सप्तगोदावरम् ।। १६० ।