________________
कातन्त्रव्याकरणम्
१६१. तत्र व्यतिगृह्य युधि सरूपयोः
तत्र व्यतिगृह्य युद्धेऽर्थे सरूपयोर्नाम्नोरव्ययीभावो भवति । केशेषु व्यतिगृह्य युद्धं वृत्तं केशाकेशि, चूडाचूडि । युधीति किम् ? केशेषु केशेषु व्यतिगृह्य क्रीडन्ति | सरूपयोरिति किम् ? भुजेषु चूडासु वाऽतिगृह्य युद्धम् || १६१ । १६२. तेन व्यतिहत्य च
૬૪૦
तेन व्यतिहत्य युद्धेऽर्थे सरूपयोर्नाम्नोरव्ययीभावो भवति । दण्डेन दण्डेन व्यतिहत्य युद्धं दण्डादण्डि शाखाशाखि । अव्ययीभावस्यानव्ययत्वाद् दण्डादण्डिकम्, दण्डादण्डितराम्, दण्डादण्डितमाम् इति अक्तरांतमां न स्युः ।। १६२ । १६३. द्विदण्ड्यादिश्च
द्विदण्ड्यादिश्चाव्ययीभावो भवति । द्वाभ्यां दण्डाभ्यां प्रहरति द्विदण्डि, द्विमुषलि, त्रिमुषलि धान्यमवघ्नन्ति ।। १६३ । १६४. खलेयवादीनि
खलेयवादीन्यव्ययीभावरूपाणि निपात्यन्ते । खलेयवा अस्मिन् काले खलेयवम्, संस्कृतयवम्, संस्क्रियमाणदुषम्, लूनयवम्, लूयमानयवम् पूर्णयवम्, पूर्यमाणयवम् । तिष्ठन्ति, वहन्ति, आयन्ति गावोऽस्मिन् काले तिष्ठद्गु, वहद्गु, आयतीगवम् । एते कालेऽन्यपदार्थेऽपि प्रथमान्ता एव । समत्वं भूमेः समभूमि, समंपदाति, समत्वे समम् अव्ययम् । नियतविषयमेव द्रष्टव्यमिति । आयतीत्वं समायाः संवत्सरस्य आयतीसमम् । एवम् अपरसमम्, पापसमम् । एषु त्रिषु भावप्रत्ययस्य लुग् निपात्यते । सुषमम्, दुःषमम्, विषमम्, प्रमृगम्, प्ररथं प्रदक्षिणम् । इमानि भावपराण्यव्ययानि | मध्यन्दिशम्, अपदिशम् इति चेच्छन्ति ।। १६४ ।
१६५. द्वन्द्वः प्राण्यङ्गस्य समाहारे
प्राण्यङ्ग्ङ्गस्य समाहारे द्वन्द्वो भवति । पाणिपादम् भुजजानु, कर्णकण्ठम् । कथं शोभनाः खल्वस्य वचनपाणिपादाः प्राण्यङ्गाप्राण्यङ्गद्वन्द्वात् । भाष्येऽपि प्राण्यङ्गमात्रस्य द्वन्द्वे विधिरयं समर्थितः । एवम् उत्तरत्रापि वेदितव्यम् । इह प्रायाधिकाराद् व्यभिचारोऽपि । तथा चैकवद्भावस्यानित्यत्वेन मुखनासिके इति भाष्ये चिन्तितम् । 'छिन्नेषु पाणिपादेषु' इत्यादयस्त्वाचार्यप्रयुक्तयो दृश्यन्ते || १६५ ।