________________
परिशिष्टम् - २
१६६ . चरणानामनुवादे स्थेणोरद्यतन्याम्
अद्यतन्यां स्थेणोः प्रयोगेऽनुवादविषये चरणानां द्वन्द्व : समाहारे भवति । प्रत्यष्ठात् कठकालापम्, उदगात् कठकौथुमम् | अन्यत्र कठकालापाः । चरणानामिति बहुवचनं नातन्त्रम् इति मन्यते । वृद्वैश्च बहुत्वे एवोदाहरणानि दर्शितानि || १६६ | १६७. तौर्य्यिकस्य
६४१
तूर्यं शिल्पं यस्य तस्य द्वन्द्वः समाहारे भवति । मार्दङ्गिकपाणविकम्, झार्झरिकमौरजिकम्, वैणविकशाङ्खिकम् || १६७ ।
१६८. तक्षादेश्च
तक्षप्रभृतेर्द्वन्द्वः समाहारे भवति । तक्षकुलालम्, रजकतन्तुवायम्, तक्षायस्कारम्, नापितसौचिकम्, यस्य भोजनादपूतं कांस्यादिपात्रमग्निविशिष्टेनैव संस्कारेण शुध्यति स इह शूद्रस्तक्षादिः ।। १६८।
१६९. द्रव्यजातावजन्तोः
जातिरिह जातिमन्मात्रम् अनियतव्यक्तिकं वस्तूच्यते । द्रव्यजातौ वर्तमानस्याजन्तोर्द्वन्द्वः समाहारे भवति । काचदृशदम्, हीरकमौक्तिकम्, स्थालीकुम्भम्, घटपिठरम्, पीठच्छत्रोपानहम् । द्रव्येति किम् ? रूपरसगन्धाः, चलनाकुञ्चनप्रसारणानि । जाताविति किम् ? मलयकेकयौ कौस्तुभगाण्डीवौ, अजन्तोरिति किम् ? ब्राह्मणक्षत्रियविशः, जातिशब्दानामपि जातिपरत्वे विधिरयम् । इह न स्यात् - इमाः पीठच्छत्रोपानहः । तन्त्रान्तरे त्वप्राणिनामिति बहुत्वनिर्देशाद् बहुत्व एव विधिरयमिति केनचित् समर्थितम्, तदपरे न मन्यन्ते । अजातित्वान्नन्दकपाञ्चजन्याविति वृद्धैः प्रत्युदाहृतत्वात् ।। १६९ ।
१७०. फलस्य तु वा
जातौ वर्तमानस्य फलस्य द्वन्द्वो वा समाहारे भवति । बदरामलकम्, बदरामलके । द्राक्षाखर्जूर, द्राक्षाखर्जूरम् । जातावित्येव - इमानि बदरामलकानि । इह जातिपरत्वे बहुवचनं नास्तीति एकवचनस्यैव द्वन्द्वः । येषान्तु जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्यामिति मतम्, तेषामपि बहुवचनान्तत्वे फलजातेर्विधिरन्यत्र निवृत्तिरेकत्वे एव विभाषा सिध्यति । शाक्यानान्तु जातौ बहुवचनं नास्ति, बहुत्वे
1