________________
६४२
कातन्त्रव्याकरणम् च फलानां विधिरयमित्यर्थाद् व्यक्तिपरत्वे एव सम्भवति । एवञ्च इमानि बदरामलकानीत्यपि स्यात् ।। १७०।
१७१. मखेऽकदिः मखे यज्ञे वर्तमानस्यार्कप्रभृत्तेर्द्वन्द्वः समाहारे भवति । अर्काश्वमेधम् । अदिरिति किम् ? दर्शपौर्णमासौ । राजसूयवाजपेयौ ।। १७१।
१७२. बहुत्वे क्षुद्रजन्तोः 'क्षुद्रजन्तुरनस्थिः स्यात्' इति स्मृतिः। बहुत्वे क्षुद्रजन्तोर्द्वन्द्वः समाहारे भवति । यूकामत्कुणम्, मशकमक्षिकम्, कृमिगण्डूपदम्, जलौकःकिञ्चुलुकम्, लूतापिपीलिकम्, 'क्षुद्रास्त्वानकुलात् सर्वे जन्तवः' इत्यपरा स्मृतिः । तदा आखुवृश्चिकम्, शरटवृश्चिकम् इति भवितव्यम् । चटकलावकाः, चटकलावकम् इति परत्वाच्छकुनिलक्षणा विभाषैव । बहुत्व इति किम् ? यूकामत्कुणौ, कृमिगण्डूपदौ ।। १७२ ।
१७३. सेनाङ्गस्य च बहुत्वे सेनाङ्गस्य द्वन्द्व : समाहारे भवति । अश्वरथम्, रथपादातम्, रथघोटकम्, रथतुरगम् । बहुत्वे इति किम् ? अश्वरथौ, रथवाजिनौ ।। १७३ |
१७४. मृगशकुनिव्रीहिदुमतृणानां वा एषां द्वन्द्वः समाहारे बहुत्वे वा भवति । एणरोहितम्, एणरोहिताः, शशकवराहम्, शशकवराहाः, शुककोकिलम्, शुककोकिलाः, लावककलविङ्कम्, लावककलविङ्काः, शालियवम्, शालियवाः, तिलमुद्गम्, तिलमुद्गाः । प्लक्षन्यग्रोधम्, प्लक्षन्यग्रोधाः, चूतचम्पकम्, चूतचम्पकाः, कुशकाशम्, कुशकाशाः, दर्भवीरणम्, दर्भवीरणानि | बहुत्वे इत्येव - एणरोहितौ, चूतचम्पकौ ।। १७४ |
१७५. पशुव्यानयोः सर्वत्र पशोर्व्यञ्जनस्य च द्वन्द्वः सर्वत्र समाहारे वा भवति । गोगर्दभम्, गोगर्दभौ, गोगर्दभाः । अजोरभ्रम्, अजोरध्रौ, अजोरभ्राः । सेनाङ्गानामपि परत्वाद् विभाषैव । हस्त्यश्वम्, हस्त्यश्वौ, हस्त्यश्वाः । घृतसूपम्, घृतसूपौ, घृतसूपाः । दधिवटकम्, दधिवटकौ, दधिवटकाः ।। १७५ |