________________
परिशिष्टम् - २
१७६. नित्यं यस्याध्येयमनन्तरम् यस्याध्येतुरध्ययनीयमन्योऽन्यप्रत्यासन्नं तस्य द्वन्द्वो नित्यं समाहारे भवति ।
पदकक्रमकम्, क्रमकवार्त्तिकम् || १७६ ।
६४३
१७७. जात्या च वैरम्
जात्या निमित्तेन यस्य जन्तोर्वैरं तस्य द्वन्द्वः समाहारे भवति । अहिनकुलम्, बर्हिभुजगम् । परत्वात् पशुशकुनिलक्षणा विभाषाऽपि बाध्यते । अश्वमहिषम्, श्वशृगालम्, मूषिकमार्जारम्, काकोलूकम्, कौशिकवायसम् । जात्येति किम् ? निमित्तान्तवर्जे वैरे मा भूत् - देवासुरौ पाण्डवकौरवौ ।। १७७ | १७८. नदीदेशनगराणामसमलिङ्गानाम्
नद्यादेरसमलिङ्गम्य द्वन्द्वः समाहारे भवति । गङ्गाशोणम्, शिप्राघर्घरम् । नदीग्रहणे नदानामपि ग्रहणमिहार्थात्। देशी जनपदे कुरुकाश्मीरकादिः । कुरुश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम् | अङ्गाश्च कुरुजाङ्गलं च अङ्गकुरुजाङ्गलम् । मथुरा च पाटलिपुत्रं च मथुरापाटलिपुत्रम् । वरणा च पञ्चनदं च वरणापञ्चनदम् । एवम् उज्जयिनीगाधिपुरम् । एषामिति किम् ? जाम्बवशालूकिनौ ग्रामौ । इहापि न स्यात् सौर्यं च नगरं केतवता च ग्रामः सौर्यकेतवते । न ह्ययं नगरस्यैव द्वन्द्वः, वृद्धैरपीदमेव समर्थितम् । ग्रामनगरद्वन्द्वे विधिरयमिति शाक्याः । असमलिङ्गानामिति किम् ? गङ्गायमुने, विदेहपञ्चालाः मधुराकुशावत्यौ । ग्रामनगरयोर्विवेकस्तु शास्त्रतो लोकतश्च
मन्तव्यः || १७८ ।
१७९. गवाश्वादीनि
गवाश्वादीनि द्वन्द्वसमासरूपाणि समाहारे भवन्ति । गवाश्वम्, गवैडकम्, गवाविकम्, कृतावानि अमूनि त्रीणि पठ्यन्ते । अजाविकम्, दासीमाणवकम्, दासीदासम्, स्त्रीकुमारम्, कुटिकुटम्, भागवतीभागवतम् कुब्जवामनम्, पुत्रपौत्रम्, उष्ट्रशशम्, उष्ट्रखरम्, मांसशोणितम्, मूत्रपुरीषम्, ककुन्मेदः, श्वचाण्डालम्, श्ववृषभम् | विकृतत्वाच्छुनश्चाण्डालादिभिरेवेष्यते, न तु जात्या । तथा च श्वान्तेवासिनौ, श्वपुक्कसाविति, अत्र न स्यात् । चण्डालस्तु छान्दसः, भाषायामपीति मतं चेत् श्वचण्डालाविति स्यात् । यथेोच्चारितं हि गवाश्वादौ पाठमिच्छन्ति । गवाविकौ, गवेडकौ इति पशुत्वाद् विभाषैव ।। १७९ ।
"