________________
६४४
कातन्त्रव्याकरणम्
१८०. न मधुसर्पिरादीनि मधुसर्पिरादीनि द्वन्द्वरूपाणि समाहारे न भवन्ति । मधुसर्पिषी, सर्पिर्मधुनी । दधिपयसी, ब्रह्मप्रजापती, शिववैश्रवणौ, स्कन्दविशाखौ, वशिष्ठकौशिकौ, तण्डुलकिण्वे, ऋक्सामे, वाङ्मनसे, शुक्लकृष्णौ, दीक्षातपसी, अध्ययनतपसी, श्रद्धामेधे, आद्यावसाने, उदूखलमुसले, इमाबर्हिषी - ह्रस्वस्य दीर्घता । येषां शैषिका विभाषा नेष्यते त इह द्रष्टव्याः ।। १८०।
१८१. संख्यानेऽनव्ययीभावेन अव्ययीभावादन्येन द्वन्द्वार्थस्य परिगणने समाहारे द्वन्द्वो न भवति । द्वौ पाणिपादौ, दश पाणिपादाः, दश काकोलूकाः, द्वौ पाणविकमौरजिकौ, द्वौ हस्त्यश्वौ, दश हस्त्यश्वाः; एवम् उपदशा हस्त्यश्वाः, अधिकदशा गवाश्वाः, अदूरदशा हस्त्यश्वाः । अनव्ययीभावेनेति किम् ? उपदशम् पाणिपादम्, उपदशं हस्त्यश्वम्, उपदशं गवाश्वम् ।। १८१।
१८२. शेषो द्वयोः विधिप्रतिषेधयोरविषयः शेषः । शेषो द्वन्द्वो द्वयोरितरेतरयोगे समाहारे च भवति । इष्टौ तिष्यपुनर्वसू, इष्टं तिष्यपुनर्वसु, कर्तृकरणम्, कर्तृकरणे , पूर्वापरम्, पूर्वापरे, अधरोत्तरम्, अधरोत्तरे, सुखदुःखे, सुखदुःखम्, शीतोष्णे, शीतोष्णम् इत्यादिकमुन्नेयम् ।। १८२।
॥ इति महामहोपाध्यायश्रीश्रीपतिदत्तविरचितायां कातन्त्रपरिशिष्टवृत्तौ समासप्रकरणं समाप्तम् ।।