________________
॥श्रीः॥
परिशिष्टम् -२ श्रीदुर्गसिंहप्रणीतानि राजादिगणसूत्राणि
[समासान्तगतानां वा राजादीनामदन्तता] [दु० वृ०]
समासान्तगतानां राजादीनामदन्तता निपात्यते अप्रत्ययो वा अदन्तो वा येषामिति विग्रहः । अवयवावयवोऽपि समासस्यावयवः, तेन उपराजम्, अध्यात्मम् । अव्ययीभावाद् विभक्तीनाम् अम् । द्विपुरी, त्रिपुरी । द्विगोर्नदादित्वादी । सक्त्वचिनी । द्वन्द्वनिन्दितरोगेभ्यः इतीन् । एवमन्येऽपि ।
१. राजन्नहन्सखि [र० च० टी०]
प्रणम्य रुद्रस्य हरेभवान्या वाण्या गणेशस्य च पादपद्मम् ।
तनोति रत्नेश्वरचक्रवर्ती राजादिवृत्तिं पठतां हिताय ॥ 'राजन्नहन्सखि' एभ्यस्तत्पुरुष समासे अत् प्रत्ययो भवति । महांश्चासौ राजा चेति महाराजः । परमं च तदहश्चेति परमाहः । देवानां राजा देवराजः । राज्ञः सखा राजसखः । एवमन्येऽपि ।।१।
२. गौरतद्धिताभिधेये [र० च० टी०]
अतद्धिताभिधेये गोशब्दादद् भवति । राज्ञो गौः राजगवः, परमगवः ।अतद्धिताभिधेय इति किम् ? पञ्चभिर्गोभिः क्रीतः पञ्चगुः । गोरप्रधानेत्यादिना ह्रस्वः ।।२।
३. उरःप्रधानार्थम् [२० च० टी०]
प्रधानाद् उरःशब्दाद् अत् प्रत्ययो भवति । अश्वानामुरः अश्वोरसम्, हस्त्युरसम् । अश्वादीनां प्रधानमित्यर्थः । प्रधानार्थमिति किम् ? अश्वोरः, अश्वानां वक्ष इत्यर्थः।।३।