________________
६४६
कातन्त्रव्याकरणम्
४. अनस् अश्मन् अयस् सरस् जातिसंज्ञयोः [२० च० टी०]
एभ्यश्चतुर्यो जातौ संज्ञायां चाद् भवति । उपगतमनः उपानसं जातिः । महच्च तदनश्चेति महानसं संज्ञा । अमृतं च तदश्मा चेति अमृताश्मो जातिः । लोहिताश्म इति संज्ञा | कालायसमिति जातिः । लोहितायसमिति संज्ञा । मण्डूकस्य सरः मण्डूकसरसमिति जातिः । एवं जलसरसम् इति संज्ञा ।।४।
५. ग्रामकोटाभ्यां तक्षन् [२० च० टी०]
ग्रामकौटाभ्यां परात् तक्षशब्दाद् अद् भवति । ग्रामस्य तक्षा ग्रामतक्षः । बहूनां साधारण इत्यर्थः । कुट्यां भवः कौटः, स चासौ तक्षा चेति कौटतक्षः, स्वगृहस्थायी ।।५।
६. अतेः श्वन् [२० च० टी०]
अतेः परात् श्वन्शब्दादद् भवति । श्वानमतिक्रान्तः अतिश्वो वराहः, जवन इत्यर्थः ।।६।
७. उपमानादप्राणिनि [२० च० टी०]
अप्राणिनि विषये उपमानो यः श्वनशब्दस्तस्माद् अद् भवति । आकर्षः श्वेव आकर्षश्व: । अप्राणिनीति किम् ? व्याघ्रः श्वेव व्याघ्रश्वा ||७|
८. मृगपूर्वोत्तरेभ्यश्च सक्थि [२० च० टी०]
एभ्य उपमानेभ्यश्च सक्थिशब्दादद् भवति । मृगस्य सक्थि मृगसक्थम् । पूर्व च तत् सक्थि चेति पूर्वसक्थम्, उत्तरसक्थम् ।। ८ ।
९. अतद्धितार्थे द्विगोनौः [२० च० टी०]
अतद्धितार्थे द्विगुसमासस्य नौशब्दादद् भवति । द्वे नावौ धनमस्य द्विनावधनम् । द्वयो वोः समाहारः द्विनावम् । अतद्धितार्थ इति किम् ? पञ्चभिौभिःक्रीतः पञ्चनौः ।।९।