________________
६४७
परिशिष्टम् -२
१०. अर्धाच्च [र० च० टी०]
अर्धात् परात् नौशब्दादद् भवति । अर्धं च तद् नौश्चेति अर्धनावम् ।। १०।
११. वा खारी [र० च० टी०]
अर्धात् पराद् अतद्धितार्थे द्विगुसमासस्य खारी शब्दादद् भवति वा । अर्धं च तत् खारी चेति अर्धखारम्, अर्धखारी | द्वयोः खार्योः समाहारः द्विखारम्, द्विखारी । द्विखारधनः, द्विखारीधनः पुत्रः । द्वाभ्यां खारीभ्यां क्रीतः द्विखारो मेषः इति । अभिधानात् तद्धितार्थे द्विगौ स्त्रीप्रत्ययस्य निवृत्तिः यथा पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुः । अतद्धितार्थ इत्यस्य व्यावृत्तिरत्र न सम्भवति ।।११।
१२. द्वित्रिभ्यामञ्जलिः [र० च० टी०]
अतद्धितार्थे द्विगुसमासस्य द्वित्रिपूर्वादञ्जलिशब्दादद् भवति । द्वयोरञ्जल्योः समाहारः व्यञ्जलम्, व्यञ्जलि । एवं त्र्यञ्जलम्, त्र्यञ्जलि | द्वावञ्जली प्रियावस्य ट्यञ्जलप्रियः, व्यञ्जलिप्रियः । एवं त्र्यञ्जलप्रियः, व्यञ्जलिप्रियः । केचिदुत्तरपदे द्विगोर्नेच्छन्ति । अतद्धितार्थ इति किम् ? द्वाभ्यामञ्जलिभ्यां क्रीतः व्यञ्जलिः ।।१२।
१३. जनपदाद् ब्रह्मन् [२० च० टी०]
जनपदवाचकात् ब्रह्मन्शब्दादद् भवति । अवन्तिषु ब्रह्मा अवन्तिब्रह्मः । इह वा न वर्तते उत्तरत्र वाविकल्पनात् ।।१३।
१४. कुमहद्भ्यां वा [र० च० टी०]
कुमहन्त्पूर्वब्रह्मन्शब्दादद् भवति वा । कुत्सितो ब्रह्मा कुब्रह्मः, कुब्रह्मा । महाब्रह्मः, महाब्रह्मा ।।१४।