________________
६४८
कातन्त्रव्याकरणम्
१५. उक्तेषु स्त्रीत्वसम्भवे नदादौ द्रष्टव्याः [२० च० टी०]
एते अत्प्रत्ययान्ताः स्त्रियां वर्तन्ते चेत् तदा एतेभ्यो नदादित्वाद् ईप्रत्ययो भवति । राजानमतिक्रान्ता अतिराजी इत्यादि । सम्भव इति किम् ? अर्धनावम्, अर्धखारम् ।। १५ ।
१६. संख्याऽव्ययायगुलिः [२० च० टी०]
संख्याव्ययपूर्वादगुलिशब्दादद् भवति । द्वयोरगुल्योः समाहारः व्यङ्गुलम् । द्वे अङ्गुली प्रमाणम् व्यगुलं दारु । निर्गतमगुलिभ्यो निरगुलम् । अतिक्रान्तमगुलिम् अत्यगुलम् ।।१६।
१७.अहःसर्वेकदेशसंख्यातपुण्यवर्षादीर्घादिश्च रात्रिः [२० च० टी०]
अहरादिपूर्वाद् रात्रिशब्दादद् भवति संख्याव्ययादेश्च । अहश्च रात्रिश्च अहोरात्रः । वचनादिह द्वन्द्वादपि । सर्वा चासौ रात्रिश्चेति सर्वरात्रः । एवं पूर्वरात्रः, अपररात्रः । एकदेशे वर्तमानस्य पूर्वादिशब्दस्यैकदेशत्वात् कर्मधारयः । अन्यत्र पूर्वरात्रिः, अतिक्रान्ता रात्रिरित्यर्थः । संख्याता चासौ रात्रिश्चेति संख्यातरात्रः । एवं पुण्यरात्रः । वर्षाणां रात्रिः वर्षारात्रः । दीर्घा चासौ रात्रिश्चेति दीर्घरात्रः । संख्याव्ययादि:द्वे रात्री समाहते द्विरात्रम् | अतिक्रान्तो रात्रिम् अतिरात्रः । सर्वादिपूर्वादहन्शब्दादद् भवति, नलोपो न भवह्निः , पूर्वाह्नः, संख्याताद् वा-संख्याताह्नः, संख्याताहः । समाहारद्विगौ नलोप एव-द्व्यहः, त्र्यहः ।।१७।।
१८. प्रागुक्तो विधिस्तसुरुष एव [र० च० टी०]
प्रागुक्तो विधिस्तत्पुरुष समासेऽद् भवति । बहुव्रीह्यादौ न स्यात् । इन्द्रः सखा यस्य इन्द्रसखा । सख्युः समीपम् उपसखि, राजा च अहश्च सखा च राजाहःसखायः ।।१८।
१९. पन्थ्यप्पुरः [र० च० टी०]
एभ्यः समासमात्रेऽद् भवति । स्थूलश्चासौ पन्थाश्चेति स्थूलपथः । देवानां पन्थाः देवपथः । विमला आपो यस्मिन् विमलापं सरः, ललाटं पूरिव ललाटपुरम् ।। १९ ।