________________
परिशिष्टम् -२
६४९
२०. धुरनक्षस्य [२० च० टी०]
समासमात्रे धुर्शब्दाद् अद् भवति । राज्ञो धूः राजधुरा । महती चासौ धूश्चेति महाधुरा । अनक्षस्येति किम् ? अक्षसम्बन्धिनी या धूस्तस्या न भवति । अक्षस्य धूः अक्षधूः । दृढा धूरस्य दृढधूरक्षः ।।२०।
२१. ऋच् [२० च० टी०]
ऋच्शब्दादद् भवति समासमात्रे । अर्धं च तद् ऋक् चेति अर्धर्चः । सप्त ऋचो यस्यासौ सप्त! मन्त्रः ।।२१।
२२. नबादिश्च माणवकचरणयोः [र० च० टी०]
नबहुपूर्वात् ऋचशब्दाद् अद् भवति । न विद्यते ऋच् यस्यासौ अनृसौ अनृचो माणवकः । बढ्यः ऋचो यस्यासौ बढ़चः चरणः । माणवकचरणयोरिति किम् ? अनृक्कं साम, बढक्कं सूक्तम् । “शेषाद् वा" इति कप्रत्ययः ।।२२ ।
२३. प्रत्यन्ववेभ्यः सामलोमनी [र० च० टी०]
प्रति-अनु-अवपूर्वाभ्यां सामलोमशब्दाभ्याम् अद् भवति । प्रतिसामम्, अनुसामम्, अवसामम् । प्रतिलोमम्, अनुलोमम्, अवलोमम् । प्रतिगतं साम इत्यादि यथायोगं प्रयोगपरिग्रहः ||२३|
२४. अचक्षुरक्षि [२० च० टी०]
अचक्षुर्विषये अक्षिशब्दाद् अद् भवति । लवणमक्षीव लवणाक्षम्, गवामक्षीव गवाक्षः, अचक्षुरिति किम् ? ब्राह्मणाक्षि ।।२४।
२५. ब्रह्महस्तिराजपण्येभ्यो वर्चस [२० च० टी०]
एभ्यः पराद् वर्चस्शब्दाद् अद् भवति । ब्रह्मणो वर्चः ब्रह्मवर्चसम्, हस्तिवर्चसम्, राजवर्चसम्, पण्यवर्चसम् ।।२५ ।