________________
६५०
कातन्त्रव्याकरणम्
२६. अन्धसमवेभ्यस्तमस्
[२० च० टी०]
एभ्यः परात् तमस्शब्दादद् भवति । अन्धं च तत् तमश्चेति अन्धतमसम्, एवं सन्तमसम्, अवतमसम् ||२६|
२७. श्वसोऽवसीयस्
[२० च० टी०]
श्वस्पूर्वादवसीयस्शब्दादद् भवति । श्वोऽवसीयम् । कल्याणमित्यर्थः ।। २७ । २८. निसश्च श्रेयस्
[२० च० टी०]
चकारः शसोऽनुकर्षणार्थः । आभ्यां परात् श्रेयस् शब्दादद् भवति । निश्चितं श्रेयः निःश्रेयसं निर्वाणम् | शोभनं श्रेयः निःश्रेयसं कल्याणमित्यर्थः ||२८| २९. अन्ववतप्तेभ्यो रहस्
[२० च० टी०]
एभ्यः पराद् रहस्शब्दादद् भवति । अनुरहसम् अवरहसम् | तप्तमिव तप्तम्, तप्तं च तद् रहश्चेति तप्तरहसम् । यदत्यन्तं रहः केनचिन्नावगम्यते तदेवमुच्यते ||२९| ३०. प्रतेरुरस् आधारश्चेत्
[१० च० टी०]
प्रतिपूर्वाद् उरस्शब्दादद् भवति । उरसि प्रवर्तते प्रत्युरसं लोम । कारकार्थेऽव्ययीभावः । आधार इति किम् ? प्रतिगतमुरः प्रत्युरः || ३० |
३१. अनुगवमायामवति
[१० च० टी०]
आयामो दैर्घ्यं तद्वति अनुगवमिति निपात्यते । गवाम् अन्वायातं शकटम् अनुगवम्, यद् गोभिरुह्यते । आयामवतीति किम् ? गवामनु पश्चात् - अनुगु । पश्चादर्थेऽव्ययीभावः ।। ३१ ।
३२. उपसर्गादध्वन्
[२० च० टी०]
उपसर्गपूर्वादध्वन्शब्दादद् भवति । प्रगतोऽध्वानं प्राध्वो रथः । प्रत्यध्वं शकटम् || ३२ ।