________________
६५१
परिशिष्टम् -२
३३. उदकपाण्डुकृष्टेभ्यो भूमिः [२० च० टी०]
एम्यः पराद् भूमिशब्दादद् भवति समासमात्रे । उदीची भूमिर्यस्मिन् स उदग्भूमः । एवं पाण्डुभूमः, कृष्टभूमो देशः ।। ३३ ।
३४. संख्याया नदीगोदाव? च [२० च० टी०]
संख्यावाचकात् परान्नदीशब्दाद् गोदावरीशब्दाद् भूमिशब्दाच्चाद् भवति । पञ्चानां नदीनां समाहारः पञ्चनदम्, एवं सप्तगोदावरम् । द्वे भूमी यस्य स द्विभूमः प्रासादः । नदीवाचकानां समाहारेऽव्ययीभाव इष्यते, अत एव नपुंसकत्वम् ।। ३४ ।
३५. उक्तेषु स्त्रीत्वसम्भवे स्त्रियामादा [२० च० टी०]
कथितेषु अत्प्रत्ययान्तेषु स्त्रियां वर्तमानेषु स्त्रियामादा इत्यनेनाप्रत्ययो भवति, न तु ईप्रत्ययः । स्थूलपथा नगरीत्यादि ।। ३५।
३६. समाहारद्वन्द्वचवर्गदषहान्त [२० च० टी०]
समाहारद्वन्द्वे चवर्गान्ताद् दान्तात् षान्ताद् हान्ताच्चाद् भवति । चान्तात्वाक्त्वचम्, श्रीम्रजम् । दान्तात् - समिद्देशदम् । षान्तात् - वाक्त्विषम् । हान्तात् - पीठच्छत्रोपानहम् ।।३६।
३७. इतोऽव्ययीभावः [२० च० टी०] अस्मात् पराद् अव्ययीभावसमासेऽद् भवति । उपशरदम् इत्यादि ।।३७।
३८. शरद्-विपाश्-अयस्-चेतस्-मनस्-उपानह्-विदः संज्ञायाम् [२० च० टी०]
एभ्यः शरदादिभ्योऽव्ययीभावसमासेऽद् भवति । शरदः समीपम् उपशरदम् । एवम् उपविपाशम्, उपायसम्, उपचेतसम्, उपमनसम्, उपोपानहम्, उपविदम् ।। ३८।