________________
६५२
कातन्त्रव्याकरणम्
३९. हिमवन्त द्विधा [र० च० टी०]
हिमवन्त - द्विधाशब्दाभ्याम् अव्ययीभावसमासेऽद् भवति । हिमवतः समीपम् उपहिमवतम्, उपद्विधम् ।।३९।
४०. अनड्वाह-विश्-चत्वार-यद्-तद् [२० च० टी०]
एभ्योऽव्ययीभावसमासेऽद् भवति ।उपानडुहम्, उपविशम्, उपचतुरम्, उपयदम्, उपतदम् ।।४०।
४१. जरा जरस् [२० च० टी०] जराशब्दादव्ययीभावसमासेऽद् भवति जराया जरसादेशश्च । उपजरम् ।।४१ ।
४२. प्रतिसमनुभ्योऽक्षि [२० च० टी०]
एभ्योऽक्षिशब्दादद् भवति अव्ययीभावसमासे | अक्ष्णोराभिमुख्यम् प्रत्यक्षम् । अक्ष्णोः समीपं समक्षम् । एवम् अन्वक्षम् ।।४२ ।
४३. उप श्वन् [र० च० टी०]
अनन्तेति वक्ष्यमाणेन सिद्धे नियमार्थः पाठः । अव्ययीभावसमासे उपादेव श्वन्शब्दादद् भवति, नान्यस्मादिति । शुनः समीपम् उपशुनम् । नियमः किम् ? अधिश्व ।। ४३।
४४. सह रजस् [२० च० टी०]
अव्ययीभावसमासे सहपूर्वाद् रजस्शब्दादद् भवति ।सह रजसा वर्तते सहरजसम्, सरजसमभ्यवहरति । साकल्येऽव्ययीभावः ।।४४ ।