________________
परिशिष्टम् -२
६५३
४५. अनन्त [२० च० टी०]
अव्ययीभावसमासेऽनन्तादद् भवति । आत्मन्यधि अध्यात्मम्, राज्ञः समीपम् उपराजम् ।।४५।
४६. नपुंसकं वा [२० च० टी०]
अव्ययीभावसमासे नपुंसकलिङ्गादनन्तादद् भवति वा । चर्मणः ममीपम् उपचर्मम्, उपचर्म ।।४६।
४७. धुडन्त [२० च० टी०]
अव्ययीभावसमासे धुडन्तादद् भवति वा । समिधः समीपम् उपसमिधम्, उपसमित् । उपदृशदम्, उपदृशत् ।।४७।
४८. गिरिनदीपौर्णमासी-आग्रहायणी [२० च० टी०]
एभ्योऽव्ययीभावसमासेऽद् भवति वा । गिरेः समीपम् उपगिरम्, उपगिरि । एवम् उपनदम्, उपनदि । उपपौर्णमासम, उपपौर्णमासि, उपाग्रहायणम्, उपाग्रहायणि । पक्षे नपुंसकलक्षणो ह्रस्वः ।।४८।
४९. इतो बहुव्रीहिः [२० च० टी०] अस्मात् सूत्रादारभ्य बहुव्रीहि यः । तत्र वक्ष्यमाणः प्रत्ययो वेदितव्यः ।।४९।
५०. सक्थ्यक्षिणी स्वाङ्गे [र० च० टी०]
बहुव्रीहिसमासे सक्थ्यक्षिशब्दाभ्यामद् भवति स्वाङ्गे गम्यमाने । दीर्घ सक्थि अस्य दीर्घसक्थः । विशाले अक्षिणी अस्य विशालाक्षः । स्वाङ्ग इति किम् ? दीर्घसक्थि, शकटम्, स्थूलाक्षिः इक्षुः ।।५०।