________________
६१५
परिशिष्टम् - २
५४. खलतिपलितवलिनैनः एभियुवन्शब्दस्य कर्मधारयो भवति । युवखलतिः, युवखलती । युवपलितः, युवपलिता । युववलिनः, युववलिना | पूर्वस्येत्येव - खलतियुवा, पलितो युवा, वलिनो युवा ।।५४।
५५. जरत्या च जरत्या च सहार्थाद् युवतिशब्दस्य कर्मधारयो भवति । युवजरती ।पूर्वस्येत्येव - जरतीयुवतिः । स्त्रीनिर्देशः किम् ? युवा जरन् । जरयुवा, युवजरन्निति पुंस्यपि जरतापि विधिरयमिति एके । नैतद् भाष्ये चिन्तितम् ।। ५५ ।
५६. श्रमणादिना कुमारस्य श्रमणादिना सह पूर्वस्य कुमारस्य कर्मधारयो भवति । श्राम्यति तपस्यतीति श्रमणः, नन्द्यादित्वाद् युः । कुमारश्रमणा, कुमारप्रव्रजिता, कुमारदासी, कुमारपटुः, कुमारपट्वी, कुमारपण्डितः, कुमारपण्डिता । इनन्तादिङो वुण्-कुमाराध्यापकः, कुमाराध्यापिका ।
श्रमणा प्रव्रजितापि गर्भिण्यपि तापसी कुलटा । दासीबन्धक्यावपि सप्तभिरेतैः स्त्रियामेव च ॥ पटुमूदुपण्डितकुशला अभिरूपाध्यापकौ निपुणचपलौ । अष्टभिरेतैः पुंसि स्त्रियामपि स्यात् कुमारस्य । इत्येवं परिगणितः श्रमणादिगणः पञ्चदशकः॥५६।
५७. क्तस्यैकप्रकृतिना क्तेन नञः तान्तस्य समानप्रकृतिना नञः परेण क्तान्तेन सह कर्मधारयो भवति । कृताकृतम्, घ्राणाघ्रातम्, त्राणात्रातम्, छन्नाच्छादितम्, अशितानशितम् । एकप्रकृतिनेति किम् ? भुक्तमदृष्टम्, स्पृष्टमपीतम् ।। ५७।
५८. कृतापकृतादीनि इमानि कर्मधारयरूपाणि साधूनि भवन्ति । कृतापकृतम्, भुक्तावभुक्तम्, यातानुयातम्, गतप्रत्यागतम्, पीतावपीतम्, भुक्तोपभुक्तम्, पीतविपीतम् । तथा