________________
कातन्त्रव्याकरणम्
५०. पोटादिप्रकाण्डादिभ्यां जातेः जातिवाचिनः पूर्वस्य पोटादिना प्रकाण्डादिना च सह कर्मधारयो भवति । ब्राह्मणपोटा, क्षत्रिययुवतिः, गोस्तोकः, अश्वकतिपयः, गोगृष्टिः, गोधेनुः, गोवेहत्, गोवसा, गोबष्कयणी, वष्कयः । प्रौढो वत्सः सोऽस्या अस्तीति पामादित्वान्नः नदादित्वादीः । कठप्रवक्ता, कठश्रोत्रियः । इङो वुण् - कठाध्यायकः, कठधूर्तः । प्रकाण्डादिना च - गोप्रकाण्डम्, अश्वमतल्लिका, गोमचर्चिका । करेणूद्घः, वडवोद्घः, स्त्रीतनुजः । प्रशस्तार्थो यथोदाहृतलिङ्गः पञ्चकोऽयं प्रकाण्डादिः। वीररक्षःप्रकाण्डकाविति, रक्ष प्रकाण्डं रावणः । सग्रामणीरनयोरिति कप्रत्ययस्तद्धितः ।। ५०।
५१. पशोभिण्या पशुवाचिनः शब्दस्य गर्भिण्या सह कर्मधारयो भवति । गोगर्भिणी, अश्वगर्भिणी । पशोरिति किम् ? वृषलीगर्भिणी । पशुरिह चतुष्पाद् गृह्यते, तेनेह न स्यात् - शरभी गर्भिणी । गोनसी गर्भिणी । जातेरित्येव-शबली गर्भिणी ।।५१।।
५२. च्यर्थे श्रेण्यादेः कृतादिना च्च्यर्थेऽभूततद्भावे वर्तमानस्य श्रेण्यादेः कृतादिना सह कर्मधारयो भवति । अश्रेणयः श्रेणयः कृताः श्रेणीकृताः । श्रेणीभूता बलाकाः । अध्यापयतीति वुण् - अध्यापककृतश्छात्रः।
श्रेणिब्राह्मणनिपुणाः पटुपण्डितकुशलचपलपुण्डाश्च । देवक्षत्रियमूकाः श्रमणो राशीन्द्रकूटनिधनानि ॥ अध्यापको वदान्यो विषयो निचयोऽपि भूतपूर्वगे च । कृतमिति भूतान्युक्तं गतं मतं स्यान्निराकृतं कलितम् ॥ सम्भावितमवधारितमकल्पितमप्युदाहृतं विद्यात् । स्नातख्यातज्ञातान्यपि मिलितात् समाहृतं चेति ॥ परिगणितः श्रेण्यादिः कृतादिरपि शेषमाकृत्या ॥५२।
५३. कुकिमोः अनयोः परेण सह कर्मधारयो भवति । कुयाज्ञिकः, कालवणम्, किंराजा, किंगौः, अव्ययग्रहणादिह न स्यात् । किं धान्यम्, कुः सुरभिः, कुः श्वेता भूरित्यर्थः ।। ५३ |