________________
परिशिष्टम् -२ उणादिरिश्च-तार्किकखसूचिः, तापसस्त्रैणः, ब्राह्मणवार्धषिकः, याज्ञिकमूर्खः, याज्ञिककितवः |लोभादयाज्ययाजकोऽभिधीयते । ब्राह्मणब्रुवः, क्षत्रियचेलः, वृषलापसदः । स्वार्थग्रहणं किम् ? वैयाकरणश्चौरः, नहि चौर्येण व्याकरणज्ञानमध्ययनं वाऽपकृष्यते, किन्त्वनाचारोऽसौ पुरुषः । अनणकादिनेति किम् ? नापितोऽणकः, अणकनापितः, कुविन्दः पापः, पापकुविन्द इति तु स्यादेव ।।४५।
४६. कृत्यतुल्यार्थयोरजात्या __ कृत्यप्रत्ययान्तस्य तुल्यार्थवाचिनश्च पूर्वस्याजातिवाचिना सह कर्मधारयो भवति । भोज्यकटुः प्रेयसुरभिः, भोज्योष्णम्, भोज्यमृदुः, तुल्यश्वेतम्, समश्वेतम् । पूर्वयोरिति किम् ? मधुरं प्रेयः, सुरभिप्रेयः, गौरं तुल्यम् । अजात्येति किम् ? भोज्या माषाः, पचेलिमाः शालयः ।।४६।
४७. पूर्वापरस्यैव दिशः दिग्वाचिनः पूर्वापरस्यैव कर्मधारयो भवति । पूर्वपुरुषः, अपरपुरुषः । रूढौ तु नित्यमेव । नहि वाक्यात् संज्ञा गम्यते । पूर्वेषुकामशमी, अपरेषुकामशमी, पूर्वपाञ्चालाः, अपरपाञ्चालाः । नियमः किम् ? दक्षिणाः शालाः, उत्तरा वृक्षाः ।।४७।
४८. प्रायो रूढौ संख्यायाः प्रायो रूढिविषये संख्यायाः कर्मधारयो भवति । सप्तर्षयः, पञ्चाम्राः । प्रायोग्रहणात् पञ्चपुरुषगामिन्यः इत्यादिष्वेवारूढौ स्यान्न सर्वत्र ।। ४८।
४९. महतः महच्छब्दस्य प्रायो बहुलं कर्मधारयो भवति । महाजनः, महापुरुषः, महाशूरः इति स्तुतौ । महाचौरः, महाश्यामः, महाक्रूरः, महाकृपणः, महाविपद् इत्यतिशायने । महानटः, महेश्वरः, महादेवश्च हरः । महामृगो हस्ती, महाव्रतं नाम चर्या, महाराष्ट्रो जनपदः । महोत्पलमरविन्दम्, महाशूद्रो गोधुक् । महौषधम्, शुण्ठी विषं च । महोदधिः, महार्णवः समुद्रः । महेन्द्रः शक्रो गिरिश्च कश्चित् । एतौ रूढौ । महातरुः, महाकूटम्, महाह्रद इति बृहत्त्वे । महापथो मरणवर्त्म । महावनं श्मशानम् । महाशय्या मरणशय्या, महाज्यौतिषिको महागणकः । महावैद्यो महासाधनिकश्च यमः । महाशङ्खो मनुष्यास्थि, महामांसं नृमांसम् | महातैलं शिरोमज्जा । महानिशा मृत्युकालः । महाब्राह्मणः कापालिकः । महायात्रा, महानिद्रा च मरणमित्यनर्थान्तरे ।। ४९ ।