________________
१२
कातन्त्रव्याकरणम्
४०. पूर्वकालस्य पूर्वकालवृत्तेः परकालवृत्तिना सह कर्मधारयो भवति । पूर्व लूनः पश्चात् प्ररूढः लूनप्ररूढः । एवं बद्धताडितः, स्नपितभोजितः । पौर्वापर्यस्य प्रतीत्यर्थं वचनम् ।। ४०।
४१. भृष्टलुचितादीनि पूर्वकालस्य परत्वेन एतानि कर्मधारयरूपाणि साधूनि भवन्ति । पूर्वं लुचिताः पश्चाद् भृष्टाः भृष्टलुचिता यवाः । एवं नग्नमुषितः पान्थः । अर्पितोढम्, लिप्तवासितम्, सिक्तसंसृष्टम्, क्लिन्नपक्वम् इत्यादयः ।। ४१ ।
४२. जरदेकपुराणादेः जरदेकपुराणादेः पूर्वस्य कर्मधारयो भवति । जरद्धस्ती, जरद्दण्डी, जरत्पटुः । एकस्य संख्यावृत्तेरपि - एकश्छात्रः । क्वचिद् रूढौ एकदेशोऽवयवः इति । अत एव तद्योगादेकदेशीति स्यात् । पुराणोपाध्यायः, नवयाज्ञिकः, केवलसुरभिः, सर्वशुक्लः, सर्वसुरभिः, प्रथमोपाध्यायः, चरमगुरुः, जघन्यशिष्यः, समानपुरुषः, मध्यशिष्यः, मध्यमशिष्यः, वीरभूपतिः, जरत्पुरुषादयश्च पूर्वेणैव सिद्धाः । पूर्वस्यैवेति किम् ? दण्डी जरन्, पाचकः पुराणः । अजातिद्रव्यवाचिभिरनियमे प्राप्ते नियमार्थं वचनम् ।।४२ ।
४३. स्तुतौ सत्प्रभृतेः प्रशंसाविषये पूर्वस्य सत्रभृतेः कर्मधारयो भवति । सच्छ्रोत्रियः, परमयाज्ञिकः, उत्तमच्छात्रः, उत्तमपण्डितः, उत्कृष्टगवः । स्तुताविति किम् ? सन् घटः, उत्कृष्टा रज्जुः कूपात् । अपादानाद्यपेक्षस्यापि हि वृत्तिः स्यादेवेति समर्थितम् । यथा वृक्षात् पतितपत्राणि ।।४३।
४४. वृन्दारकादिभिश्च प्रशंसायामेभिश्च पूर्वस्य कर्मधारयो भवति । गोवृन्दारकः, गोनागः, गोकुञ्जरः, गोसिंहः, गोवृषभः, गोपुङ्गवः, पुरुषर्षभः, पुरुषशार्दूलः, नागादयः पुंस्युत्तरपदविषया एव प्रशंसा इति तैर्नित्यं समासः । स्तुतावित्येव-भृत्या वृन्दारकाः, दास्यो वृन्दारिकाः । प्रधानानीत्यर्थः ।। ४४।
४५. गद्यस्यानणकादिना स्वार्थगर्हणेन गर्हणीयस्य पूर्वस्याणकादिवर्जितेन स्वार्थगर्हणेन सह कर्मधारयो भवति । खं सूचयतीति णिनिः- वैयाकरणखसूचिः, निष्प्रतिभो वैयाकरणः । खं सूचयतीति
। ००