________________
परिशिष्टम् -२ नीलोत्पलवत् सरः, लोहितशालिमान् ग्रामः । कृष्णसर्पवान् वल्मीकः । अरूढात् कर्मधारयान्मन्त्वादिविषये बहुव्रीहिरेवेति । तत्रेतिग्रहणादेव मन्तव्यम् । चित्रगुश्छात्रो न जातु चित्रगवीमानिति । अथेह कथमियं न संज्ञा, न हि चित्रा गौर्यस्येति संज्ञाया विरोधस्ततश्चित्रगवस्वामीति स्यात् ? सत्यम् । हेतुश्चेति चकारेण ज्ञापितं क्वचित् संज्ञयापि संज्ञा बाध्यते, तच्चापादानादिषु कर्मधारयादिषु आत्मनेपदसंज्ञायां च मन्तव्यम् ।. पूर्वस्यैवेति किम् ? गौश्चित्रा, डित्यो गौरः । अजातिद्रव्यस्तु परस्यापि पटुकृपणः, कृपणपटुः, शुचि (सुरभि)- युवतिः, युवति (सुरभि)- शुचिः । दण्डिरथी, रथिदण्डी । तथा पाण्डुकृष्णः, कृष्णपाण्डुः । अवयवधर्मेणावयविव्यपदेशाद् इहैकाधिकरण्यम् । विशेषणस्येति किम् ? लोहितस्तक्षकः । लौहित्यव्यभिचारिणो हि लोहितविशेषणम् । अयं तु लोहित एव तक्षकः । सर्प इति । गएँ प्रति तक्षको विशेषणम्, सर्पस्य तक्षकत्वव्यभिचारात् । तस्मात् तक्षकसपं इति स्यादेवेति मतम् । तथा बिन्थ्यगिरि-वसन्तसमय-रेवानदीचन्दनद्रुमादयो वृद्धैः प्रयुक्ताः ।।३६ ।
३७. कतरकतमयोर्जात्या अनयोश्च जात्या सह कर्मधारयो भवति । कतरब्राह्मणः, कतरकतमब्राह्मणः, कतरकठः, कतमकठः । जात्येति किम् ? कतरश्चैत्रः, कतमश्चौरः ।।३७।
३८. उपमानस्योपमेयविशेषणैः उपमेयविशेषणैः सहोपमानस्य कर्मधारयो भवति । कुमुदमिव श्वेतं कुमुदश्वेतं शिरः । एवं चम्पगौरी कन्या, मृगरम्या शुनी, वराहपुत्रिणी पामरी, कपोतकामुको युवा, सिंहशूरो भटः । उपमेयविशेषणैरिति किम् ? गौरिव पामरः, सिंह इव माणवकः, शोण इव सिन्धुः, धेनुरिव बष्कयणी ।।३८ ।
३९. तदप्रयोगे प्रायेणोपमेयस्य उपमेयविशेषणस्याप्रयोगे उपमेयवाचिनोऽर्थादुपमानवाचिना व्याप्तादिना सह प्रायेण कर्मधारयो भवति । व्याघ्रवृककुञ्जररुरुवराहबलाहकवृषऋषभसिंहशार्दूलचन्द्रचन्दनहस्तिपल्लवपङ्कजपुण्डरीकादिभिरुदाहरणीयम् । पुरुषो व्याघ्र इव पुरुषव्याघ्रः, नरवृकः, साधुकुञ्जरः, करपल्लवः, भूपालचन्द्रः । तदप्रयोग इति किम् ? पुरुषो व्याघ्र इव भीमः । करः पल्लव इव शोणः । प्रायेणेति किम् ? बिन्ध्यो मलय इव, चैत्रो मैत्र इव, चूतश्चम्पक इव, शोण : सिन्धुरिवेत्यादि ।।३९।