________________
६१०
कातन्त्रव्याकरणम्
३२. वृत्तौ युवावैनमघवदर्वत्स्वेव प्रत्ययवत् वृत्तौ स्यादिलोपे सति युवादिष्वेव कर्तव्येषु प्रत्ययवत् भवति नान्यत्र । प्रिययुवया, प्रियावया । एतेन पक्वमोदनम्, अथो एनत् शृतं क्षीरम् । इदमश्चेत् - एनं शृतं क्षीरम् । एतयोरुच्चाः प्राकारा अथो एनदागाराणि रम्याणि | इदमश्चेत् - एनागाराणि रम्याणि । एतं श्रितः सहायः, अथो एनत् श्रितानि कुटुम्बानि | इदमश्चेत् - एनाश्रितानि कुटुम्बानि ।
केचिद् उभयोरपि तकारान्तमेव रूपमिच्छन्ति । अपरे त्वाचार्या द्वयोरप्येनद्विधानादुभयत्रापि तान्तमेव रूपमाहुः । भाष्यस्थित्या तु समासे एनादेशस्य विभाषा | मघवत्पुत्रः, अर्वच्छाया । अवधारणं किम् ? राजवत्, राजकल्पः, राजवृन्दारकः, राजकाम्यति, अतिराजनि, अतिवृषलि, अप्पाशः, पुंस्कडारः, सुमनस्तरः, सुमनस्कल्पः, अङ्गिरस्तापसः, नभस्वभाद्रः । एषु दीर्घो न स्यात् । उशनस्कल्पः, पुरुदंस्कल्पः, अनेहस्पाशः । एष्वन्न स्यात् । चतसृणां प्रियः चतुष्प्रियः । एवं चतुर्यति, चतुर्य्यते, चतुःकाम्यति । चतसृभावो न स्यात् । बहुच्यूर्वस्य च-बहुत्वचा, बहुतडिता । बहुचि सति प्रत्ययलोपे पदत्वं न स्यात् ।।२२।
३३. सुभोर्नोत्तरपदस्य सुभोरिति यदतिदिष्टं तदुत्तरपदस्य न भवति ।परमदण्डिना । बहुगोमन्तो विदेहाः, प्रियचत्वाः, प्रियानड्वान्, अतिदिवौ, दृढत्वचौ ।। ३३ ।
३४. षष्ठ्या पूर्वस्यैव समासवाक्येषु षष्ठ्या निर्दिष्टस्य पूर्वस्यैव समासो भवतीति वक्ष्यमाणेषु मन्तव्यम् ||३४|
३५. ऐकाधिकरण्ये कर्मधारयः एतदधिक्रियते । भिन्नार्थयोरेकवस्तुन्यभिनिवेशः ऐकाधिकरण्यम् ||३५|
३६. जातिद्रव्यैर्विशेषणस्य ऐकाधिकरण्ये सति जातिद्रव्यवचनैः सह पूर्वस्यैव विशेषणस्य कर्मधारयो भवति । चित्रगवः, प्राप्तगवः, विषाणिगवः, मज्जन्मैनाकः, चलत्सुवेलः । रूढौ तु नित्यम् - नीलोत्पलम्, कृष्णसर्पः, लोहितशालिः । रूढात् कर्मधारयादपि इहामन्त्वादिः स्यादेव ।