________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
२७१ घोषवदाश्रयदीर्घाभावार्थत्वे व्याख्यातत्वात् । तस्मात् संख्याव्यञ्जको निवर्तते इति टीकायां यदुक्तं तद् युक्तार्थलोपं प्रति आगमादेशस्य विभक्तित्वोपचाराभिप्रायेणैव । उपचारबीजं तु 'विभक्तयः' इति बहुवचनम् । तथा यूयं पुत्रा अस्येत्यादौ विभक्त्युपचाराद् विकृतिरूपमेव निवर्तते । प्रकृतिः पुनर्वर्तत एव । अन्यथा प्रकृतिरपि निवर्तते तदा कस्य समास इति । यद्यपि "प्रयोगतश्च" (३।१।१७) इति प्रयोगे “अव्ययाच्च" (२।४।४) इति सेोपेऽनेन सूत्रेण लोपाभावात् कथं युक्तार्थत्वम् । तदभावे च कथम् एकपदप्रतिपादिका विभक्तिरिति । तस्मादेकपदार्थं प्रत्ययलोपलक्षणन्यायेन विभक्तिरारोप्य लुप्यत इति हेमकरेणोक्तम्, तदुन्मत्तप्रलपितमिति । न ह्यनेन यत्र विभक्तिलोपस्तत्रैव युक्तार्थतेति निश्चितम् । अन्यथा 'कण्ठेकालः' इत्यादौ विभक्तिलोपाभावात् कथमैकपद्यं स्यात् ।
श्रीपतिस्तु त्वत्पुत्रो मणिप्राप्तो धेनुप्राप्त इत्यादिषु अकृतलक्षणेषु कौमाराः कार्यार्थं कृतमपि संस्कारं निवर्तयन्तीति परिभाषामाश्रित्य स्यादयः पुनरुत्थाप्य लुप्यन्ते । अस्यार्थः- अकृतलक्षणेषु अप्रवृत्तेषु तत्सूत्रकार्येषु नीलोत्पलमित्यादिप्रयोगेषु कार्यार्थमनेन लोपार्थं कृतमपि संस्कारं विभक्तिलोपादिकं निवर्तयन्ति दूरीकुर्वन्तीत्यर्थः । अस्याः परिभाषाया व्यञ्जनान्तस्य सन्ध्यक्षरान्ततेति बीजमित्याह । अन्यथा व्यञ्जनमन्ते यस्येति विग्रहे व्यञ्जनमित्यत्र विभक्तित्वाभावादागमस्य कथं लोपः स्यादिति । तन्नेति महान्तः । व्यञ्जनान्यन्ते येषामिति विग्रहे इकारस्वरूपविभक्तेः स्थानिवद्भावादनेन सूत्रेण तल्लोपे निमित्ताभावादागमनिवृत्तौ व्यञ्जनान्तस्येति निर्देशः सिद्ध एव । कथमुक्तन्यायस्य लिङ्गं भवितुमर्हति तस्मादयमेव सिद्धान्तः ।
तथाहि, तत्स्था लोप्या विभक्तय इत्यत्रापद्यन्ते इति क्रियान्वयित्वाल्लोपमिति कृते सिध्यति। यद् विभक्तय इत्यस्य लोप्या इति समानाधिकरणं पदं निर्दिशति, तेन लोपविशिष्टा विभक्तिरेव साध्यत्वेन गम्यते । ततश्च यत्र तत्र विद्यमाना विभक्तिस्तत्रानेन लोपमात्रं विधीयते। यत्र चान्येन सूत्रेण विभक्तिलृप्ता तत्रानेन सूत्रेण पुनस्तस्मात् परा विभक्तय इत्यनेनैकवाक्यतया विभक्तिर्विधाय लुप्यते । तेन नीलोत्पलमित्यादौ "अकारादसंबुद्धौ मुश्च" (२।२।७) इत्यनेन विभक्तिलोपे सति आगमे नीलमुत्पलमिति स्थितेऽनेन विभक्तौ विधीयमानायां सत्यां नैमित्तिकागमस्याभावे पुनरनेन विभक्तिलोपे सिद्धं नीलोत्पलमिति | न चानेन विभक्तिलोपे आगमो भविष्यतीति वाच्यम्, “अकारादसंबुद्धौ" (२१२।७) इत्यनेन यत्र लोपस्तत्रैवागमस्य विधानमिति मुश्चेति चकारेण ज्ञापितम्।