________________
२७०
कातन्त्रव्याकरणम्
समासस्य प्रधानत्वादित्युक्तम् । प्रधानस्य नाम्नां युक्तार्थ इति समुदायस्यैकदेशो युक्तार्थ इति युक्तार्थग्रहणमप्रधानमेव तद्ग्रहणादवसीयते । ननु तथापि तद्ग्रहणं न कार्यम्, यावता पूर्वसूत्रे व्यतिक्रमनिर्देशादेव युक्तार्थोऽनुवर्तिष्यते । नैवम् । बुद्ध्याध्यासितसंबन्धस्यापि व्यतिक्रमनिर्देशो युज्यते । तद्ग्रहणाभावे "स्थिता लोप्या विभक्तयः” इति सूत्रं कर्तव्यमिति भाव्यम् ।
ननु युक्तार्थमात्रस्था विभक्तयो लोप्या इत्युक्ते ‘राज्ञः पुरुषः' इत्यादिवाक्ये युक्तार्थस्य सत्त्वाल्लोपः कथं न स्यादिति चेत् - भ्रान्तोऽसि । पूर्वसूत्रे युक्तार्थपदेन एकार्थीभावापन्न एवोच्यते । स चाभिधानात् पदप्रत्ययसमूहः समासश्चाभिधीयते । तथा च श्रीपतिः (कात० परि०, स० सू० १)
ऐकायं पृथगर्थानां वृत्तिं युक्तार्थतां विदुः।
शब्दानां शक्तिवैचित्र्यात् तत् समासादिषु स्मृतम् ॥ इति कुतोऽत्र वाक्यप्रसङ्गः । अन्यथेति । ननु समासस्य कथमानन्तर्यम्, युक्तार्थग्रहणेनैव व्यवहितत्वात् ? सत्यम् । समासग्रहणेनात्र नाम्नां युक्तार्थतेति पर्यवस्यतीत्युक्तमेव, ततश्च “नाम्नां युक्तार्थः' (२।५।१) इति समुदायस्यैकदेशस्य युक्तार्थस्यानन्तर्यम् अविरुद्धमेवेति 'नाम्नां युक्तार्थः' इत्यनुवर्तते इति । ननु तथापि समासपदेन व्यवधानात् कथं नाम्नामित्यस्यानुवृत्तिः, येन समासग्रहणेन नाम्नां युक्तार्थ इत्यभिधीयते इत्याशङ्क्याह – प्रधानमिति । हेतुगर्भविशेषणमिदं नाम्नां युक्तार्थ इत्यस्य कार्यितया प्रधानत्वादित्यर्थः । यद् वा अनन्तरत्वादिति अनन्तरसूत्रोपात्तत्वात् प्रधानं नाम्नां युक्तार्थ इत्यनुवर्तते इत्यर्थः । नीलोत्पलमिति वृत्तिः । नन्वनेन विभक्तिलोपविधानाद् मु-आगमस्य कथं लोपः । अत्र दुर्गः- नीलोत्पलमिति मुरागमः संख्याव्यञ्जको निवर्तते । तथा आदेशश्च । तव पुत्रस्त्वत्पुत्रः, यूयं पुत्रा अस्येति युष्मत्पुत्र इति ।
हेमकरस्त्वस्याभिप्रायं वर्णयति – तथाहि संख्याव्यञ्जकत्वादादेशागमयोरपि लोपः, कथमन्यथा विभक्तिलोपप्रतीतिः, तन्न । स्यादेरदर्शनादेव लोपप्रतीतिः । नहि तच्चिसदर्शनेन तद्दर्शनं भवतीति । अन्यथा 'सखा' इत्यादौ "व्यानाच्च" (२।१।४९) इति विभक्तिलोपे विभक्तिचिह्नस्याकारस्यापि लोपः स्यात् । यदि पुनरमीषां विभक्तित्वमुपचर्यते संख्याव्यञ्जकत्वात्, तदा घोषवति विभक्तौ कथन्न दीर्घः स्यादिति हेमकरेणोक्तम् । तन्न | “अकारादसंबुद्धौ मुश्च" (२।२।७) इत्यत्र टीकायां मुरित्युकारस्य