________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
इति । तेन शाकपार्थिवादिषु प्रधानादयो लोप्या इति । तदयुक्तम् । शाकप्रधानः पार्थिवः शाकपार्थिवः । दध्ना परिपूर्णो घटः दधिघटः । वर्णाश्रयो विधिर्वर्णविधिरिति । शाकपार्थिवादिषु प्रधानादयः शब्दा वृत्ताववगतार्था इति । केशसंघाताश्चूडा अस्य केशचूडः । सुवर्णविकारोऽलंकारोऽस्य सुवर्णालंकारः । संघातविकारयोर्दर्शनं सुखार्थम् । नहि संघातमन्तरेण चूडा, विकारमन्तरेण चालंकार इति । उष्ट्मुखमिव मुखमस्येति वाक्ये दृष्टो मुखार्थो वृत्तावन्तर्भवतीति । उष्ट्मुखः, उष्ट्रस्येव मुखमस्य । उष्ट्रमुखो वा खलूष्ट्रशब्दोऽन्तर्भावितोपमेयभावः । उष्ट्रमुखमस्येति विलपन्त्यन्ये । न विद्यमानाः पुत्राः न सन्ति वा पुत्रा अस्येति अपुत्रः । सत् क्रियापेक्षस्यापि नञो वृत्तेर्गमकत्वात् । न विद्यमानः अविद्यमानः पुत्रोऽस्येति अविद्यमानपुत्रः, स्वपदविग्रहः । प्रगत आचार्यः प्राचार्यः । प्रादयो हि गताद्यर्थे वर्तन्ते एव । प्रपतितं पर्णम् अस्य प्रपर्णः । स्वपदविग्रहे तु प्रपतितपर्ण इति भवत्येव । समासराशिपक्षे तु स्वभावादेवमर्थे शब्दा एव वर्तन्त इति ।। ३३९ ।
२६९
[वि० प० ]
तत्स्था० । तस्मिंस्तिष्ठन्तीति तत्स्थाः । “नाम्नि स्थश्च " ( ४ | ३ |५) इति कप्रत्ययः। युक्तार्थमात्रस्था इति कथमेतद् यावता पूर्वसूत्रे समासस्य प्रधानत्वात् तस्यैवानुवर्तनमुचितम् ? सत्यम् । अप्रधानस्यापि युक्तार्थस्यानुवर्तनं तद्ग्रहणादेवावसीयते । अन्यथा अनन्तरत्वात् प्रधानं समास एवानुवर्तिष्यते किं तद्ग्रहणेन । तद्धितनामधातुष्वपि लोपो भवति, तत्रापि युक्तार्थस्य संभवाद् इत्याह - राजता, पुत्रीयतीति । क्वचिद् इत्यादि । कण्ठे कालोऽस्य, उरसि लोमान्यस्येति विग्रहः । इत्येवमादय इति। अन्येऽप्यलुक्समासाः शिष्टप्रयोगानुसारेण वेदितव्या इति ।। ३३९।
[ क० च० ]
तत्स्था०। कथमेतद् यावतेत्यादि । ननु समासस्य कथं प्रधानत्वात् तस्यैवानुवर्तनमुचितमित्युच्यते । यावता पूर्वसूत्रे कार्यितया निर्दिष्टस्य नाम्नां युक्तार्थस्यैव प्राधान्यम्। अतस्तस्यैवानुवर्तनमुचितं न समासस्येति । अत एव “ तौ रं स्वरे " (२।३।२६) इत्यत्र कार्ययोस्तिसृचतनोरनुवर्तनार्थमेव तद्ग्रहणमुपात्तम् ? सत्यम् । समासस्यानुवृत्तावपि यदि प्रधानत्वान्नाम्नां युक्तार्थ इति समुदयोऽनुवर्तते तदैव समासानुवृत्तिः पर्यवस्यति । य एव नाम्नां युक्तार्थः स एव समास इत्यभिप्रायेण