________________
२६८
कातन्त्रव्याकरणम्
आत्मपरयोश्चतुर्थ्याः संज्ञायाम् - आत्मनेपदम्, परस्मैपदम् । आत्मनेभाषः, परस्मैभाषः । युत्पत्तिस्तु यथाकथञ्चित् । षष्ठ्यन्तस्याक्रोशे- दास्याः पतिः, चौरस्य कुलम् । पुत्रे विभाषा - दास्याः पुत्रः, दासीपुत्रः । वाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु-वाचोयुक्तिः, दिशोदण्डः, पश्यतोहरः । हरतेः पचाद्यच्, अनादरसंबन्धे षष्ठी | तथा शुनः शेफपुच्छलाङ्लेषु संज्ञायाम् - शुनःशेफ इत्यादि । शेफ इति शिङो निपातितत्वाद् अच्प्रत्ययेऽकारान्तोऽयं प्रथमावान् । सान्तपक्षेऽपि सूत्रत्वात् सलोप इत्येके। तथा दिवोदासः, देवानांप्रियः । अमुष्य पुत्रस्य भावः, अमुष्य कुलस्य भावः आमुष्यपुत्रिका, आमुष्यकुलिका । क्रीतादित्वाद् भावे इकण् । अमुष्यापत्यम् आमुष्यायणः । कुमादित्वाद् आयनण् । वियायोनिसंबन्धिनः मदन्तस्य तेनैव - होतुः पुत्रः, होतुरन्तेवासी । पितुः पुत्रः, पितुरन्तेवासी । तेनैवेति किमर्थम् ? होतृगृहम्, पितृधनम् । स्वसृपत्योर्वा वियायोनिसंबन्धिनोरेव - पितुःस्वसा, पितृष्वसा । मातुःस्वसा, मातृष्वसा । मातृपितृभ्यां समासे विभक्तिलोपे नित्यं षत्वम् । दुहितुःपतिः, दुहितृ पतिः । ननान्दुःपतिः, ननान्दृपतिः ।
सप्तम्यन्तस्योत्तरपदेऽपि बहुलम् – 'स्तम्बेरमः, कर्णेजपः, गोषुचरः' इत्यादि । अकारव्यञ्जनान्तस्य स्वाङ्गस्यामूर्धमस्तकस्य कामवर्जितेन नाम्ना । कण्ठे कालोऽस्येति कण्ठेकालः, उरसिलोमा । अमूर्धमस्तकस्यैव । मूर्ध्नि शिखाऽस्येति मूर्धशिखः, मस्तकशिखः । कामवर्जितेनेत्येव । मुखे कामोऽस्येति मुखकामः । अकारव्यञ्जनान्तस्यैव । इह न भवति - अङ्गुलिव्रणः, जङ्घावलिः | बन्धे घञन्ते वा- चक्रेबन्धः, चक्रबन्धः । हस्ते बन्धोऽस्येति हस्तेबन्धः, हस्तबन्धः । कालवाचिनस्तराम् तमाम् - तर-तम-तमट्कालेषु वा पूर्वं च तदहश्चेति राजादित्वादत् । पूर्वाह्नेतराम्, पूर्वाह्नेतमाम् । पूर्वाह्नतराम्, पूर्वाह्नतमाम् ।पूर्वाह्नेतरः, पूर्वाह्नतमः । पूर्वाह्नतरः, पूर्वाह्नतमः ।पूर्वाह्नेतनः, पूर्वाह्नतनः । पूर्वाह्नापरालाभ्यां भावजातेऽर्थे तनट् । पूर्वाह्नकालः, पूर्वाह्नक. कृतापि-प्रावृषिजः, शरदिजः, कालेजः, दिविजः, वर्षेजः, वर्षजः । क्षतेजः, क्षतजः । सरसिजम्, सरोजम्, वारिजः इत्यादि । अकारव्यानान्तस्य कालवर्जितस्य शयवासवासिषु वा-खेशयः, खशयः । ग्रामेवासः, ग्रामवासः । ग्रामेवासी, ग्रामवासी । स्तोकान्मुक्तादीनां समासे सति तद्धितोत्पत्तिः पदान्तरेण च संक्षेपः। तद् यथा - स्तोकान्मुक्तस्तस्येदम् इत्यण् । स्तोकान्मुक्तं धनं स्तोकान्मुक्तस्य प्रियः स्तोकान्मुक्तप्रियः । वाक्ये तु व्यपेक्षावति कथं भवति । स्थग्रहणमिह सुखप्रतिपत्त्यर्थम् । कश्चिद् योगविभागार्थमिति मन्यते तत्स्था लोप्या