________________
२६७
नामचतुष्टयाध्याये पञ्चमः समासपादः प्रधानत्वात् समास एवानुवर्तिष्यत इति भावः । तेन तद्धितनामधातुष्वपि विभक्तिलोपार्थम् अन्वाख्यानमुपपद्यते इत्याह - युक्तार्थमात्रस्था इति । विधिपक्षे तु वक्तव्यमेव स्यात् – नायं नाम्नां समास इति । कश्चिद् आह – “इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च, एयेऽकवास्तु लुप्यते, कार्याववावावादेशौ" (२।६।४४, ४७, ४८) इति वचनाद् यिन्नय्योर्दीर्घविधानाद् इति लिङ्गस्यान्त्यस्वरादिलोपाच्च तद्धितनामधातुष्वपि विभक्तीनां लोप इति सर्वोद्दिष्टं ज्ञापकम् उन्नेयम् । अन्यथा कथमनन्तरभाव इति |
नीलोत्पलमिति मुरागमः संख्याव्यञ्जको निवर्तते तथा आदेशश्च । तव पुत्रस्त्वत्पुत्रः । यूयं पुत्रा अस्य युष्मत्पुत्र इति । कथं तर्हि 'द्विपुत्रः, उभयभार्या' इति विभक्तिवाच्यः कर्मादिसंसृष्टोऽर्थः स बाह्यो भेदो निवर्तते । द्वौ पश्यति, द्वाभ्यां कृतमिति | नामार्थद्वित्वं तु स्वार्थत्वादवतिष्ठते । उक्तं च -
ढ्यादीनां च द्विपुत्रादौ बाह्ये (संख्या) भेदो निवर्तते । विभक्तिवाच्यस्वार्थत्वानिमित्तं त्ववतिष्ठते॥
(वा० प० ३।१४।११७)। एकार्थीभावाद् विधिपक्षेऽपि मन्दधियां सुखार्थमेवेदमिति । विभक्तिर्यत्र लुप्यते स समास इति प्रायिकं चैतत् । स्थितायामपि विभक्तौ समासो दृश्यते, तदोभयपक्षेऽभिधानमेव प्रमाणम् । तद् यथा - स्तोकान्तिकदूरार्थकृच्छ्राणामसत्त्वार्थानां डसेरलोप उत्तरपदे । स्तोकार्थः- स्तोकान्मुक्तः, अल्पान्मुक्तः ।अन्तिकार्थः- अन्तिकादागतः, अभ्याशादागतः । दूरार्थ:- दूरादागतः, विप्रकृष्टादागतः । कृच्छ्रादागत इति । अर्थान्तरपदे (अनुत्तरपदे तु) स्तोकान्निष्क्रान्तो निस्तोक इति । ब्राह्मणाच्छंसीति ऋत्विग्विशेष एव रूढः । ब्राह्मणाद् ग्रन्थविशेषाद् अवयवमर्थं वा गृहीत्वा शंसति कथयति ताच्छील्ये णिनिः । ओजःसहोऽम्भस्तमोऽअसां तृतीयान्तानाम् - ओजसाकृतम्, सहसादृष्टम्, अम्भसास्पृष्टम् (अम्भसा तृप्तम्) । तमसावृतम्, अञ्जसास्थितम् ।।
पुंजनुषोरनुजान्धाभ्याम् – पुंसानुजः, जनुषान्धः । जनुरिति जन्मोच्यते । मनसः संज्ञायाम् – मनसादेवी, मनसागुप्ती, मनसाज्ञायी | मनसा ज्ञातुं शीलमस्येति णिनिः ।
आत्मनः पूरणे- भवतेर्गम्यमानत्वाद् आत्मा करणम् । आत्मनापञ्चमः, आत्मनाषष्ठः । 'आत्मचतुर्थो जनार्दनः' इत्यपि दृश्यते। आत्मा चतुर्थोऽस्येति वा बहुव्रीहिः ।