________________
२७२
कातन्वव्याकरणम्
अयमेवार्यः श्लोकैरुक्तः। तथाहि,
लोपमात्रस्य साध्यत्वे लोपमित्येव निर्दिशेत् । अतो लोपविशिष्टस्य साध्यत्वमवगम्यते ॥१॥ विशिष्टस्य हि साध्यत्वे शास्त्रयुक्त्यनुसारतः। विशेषणं विशेष्यं वा तद् द्वयं वाभिधीयते ॥२॥ तथाहि लोहितोष्णीषा ऋत्विजः प्रचरन्त्विति । ऋत्विक्प्रचरणे सिद्धे रक्तोष्णीषविधिर्मतः॥३॥ ऊप्स्यद्भिश्च ऋत्विगग्निहोत्रं मासमिति श्रुतौ । गुणकालसमाविष्टं द्वयमेव विधीयते ॥४॥ नीलं घटं पिधेहीति लोकेऽपि द्वयमीक्ष्यते । क्वचिनीलगुणस्यैव विशिष्टस्य विधिः स्वचित् ॥५॥ एवं विभक्तिसत्त्वेऽत्र लोपस्यैव विधेयता। तदभावे विभक्तिश्च तल्लोपश्च विधीयते ॥६। अतो लोप्यपदस्यात्र पूर्वपाठोऽपि युज्यते । द्वयमेव यतः कार्यम् आचार्येण प्रदर्शितम् ॥७। एवं स्यादिस्वरूपस्य विधिना पुनरागमः। उपजातोऽस्य लोपश्च विकारश्च निवर्तते ॥८॥ अतो नीलोत्पले लोपः संश्रितो यो मुरागमः। निवृत्तिः सुतरां तस्य ततो लिङ्गं स्वरूपभाक् ॥९। न चानेनापि सूत्रेण लोपे जाते मुरागमः।
चकारकरणात् तत्र लुकि तेनैव युज्यते ॥१०॥ इत्याहुः । ननु संज्ञयैव वा विधिरन्वाख्यात इति पङ्क्त्या यत्र समाससंज्ञा तत्र युक्तार्थतानुमीयताम् । राजता, पुत्रीयतीत्यादौ समाससंज्ञा नास्ति तत्र कथं युक्तार्थ