________________
नामचतुष्टयायाये पनमः समासपादः
३८३ स्त्रियां तु जलप्रक्षेपणार्थ इति । नार्थोऽत्र भाषितपुंस्कः, यथा दीर्घजङ्घ इति पुंसि स्त्रियां च वर्तमानेन दीर्घशब्देन भाषितपुंस्को दीर्घत्वलक्षणोऽर्थ इति । पुंवद्भावनिबन्धनं तु कार्य शब्दस्यैवार्थे तस्यासम्भवात् । अनूङ् इत्यादि । ब्रह्म बन्धुरस्या इत्यमनुष्यजातेरुकारान्ताद् ऊङ् इति नदादिवचनादूङ् प्रत्ययः । यदि पुंवद्भावः स्यात् तदा ऊडो लोपः स्यात् । कल्याणीपञ्चमा रात्रय इति । कल्याणी पञ्चमी यासां रात्रीणामिति अवयवेन विग्रहः । समुदायस्तु समासार्थः । अवयवश्व समुदायेऽन्तर्भवति । रात्रयो ह्यत्र स्त्रियो मुख्या इति । पूरणीप्रमाण्याविति राजादित्वादत् । मुख्य इत्यादि । कल्याणी पञ्चमी यस्येति विग्रहे स्त्रीत्वविशिष्टपूरणार्थो नात्र प्रतिपादित इति प्रतिषेधो न भवति । पूरणप्रत्यान्ता हि स्त्री पूरणी न चेह बहुव्रीहिणा स्त्री वाच्या अपि तु पुमान् पक्ष इति, अतो गौणत्वमस्याः। तथा समासान्तविधिरपि न भवति, तत्रापि मुख्यपूरणीग्रहणात् ।। ३५५।
[क० च०]
पुंवद्भा० । पुमानिव पुंवत्, प्रथमान्ताद् वतिः । पूरणप्रत्ययान्तः स्त्रीवाचकः पूरणीत्युपचारात् । सा आदिर्येषां ते पूण्यादयः, पश्चान्नञ्समासः । तेष्विति विग्रहः । अधिक्रियते नियुज्यतेऽस्मिन्नित्यधिकरणमर्थः । तुल्यमधिकरणं यस्येति भिन्नप्रवृत्तिनिमित्तमेकार्थप्रयुक्तत्वमुच्यते एकप्रवृत्तिनिमित्तस्य यौगपद्येन प्रयोजनाभावात् । अन्यातिदेशस्यासंभवाद् रूपातिदेशोऽयम् । पुंवाचकस्य नाम्नो यद् रूपं स्त्र्याभिधायिनोऽपि नाम्न आन्तरतम्याद् भवतीत्यर्थः । पदे परत इत्येकदेशेनार्थो गम्यत इति न्यायात् पदे इत्यस्योत्तरपदे इत्येवार्थः । तेन चित्रा जरद्गुरित्यत्र जरतीशब्दे परे पुंवत्त्वं चित्रापदस्य न पुंवत्त्वम् । एवं पट्वी मृद्वी भार्या यस्य स पट्वीमृदुभार्यः इत्यादिष्वपि बोद्धव्यम् । अथ यदि स्त्रियामिति तुल्याधिकरणपदेन सह संबध्यते, तदा ग्रामणिदृष्टिरित्यत्रापि पुंवत् स्यात् । नपुंसकलक्षणहस्वनिवृत्तिः प्रयोजनम् । यदि च भाषितपुंस्कानूङा सह साहचर्यं तर्हि कल्याणीप्रधाना इत्यत्रापि स्यात् पुंवत्त्वे स्त्रीकारनिवृत्तेः प्रयोजनत्वादित्याह - अर्थादित्यादि । अस्य प्रमाणं तु क्रियानिमित्तयोर्मध्ये स्त्रियामित्यस्य पाठ इति भावः । मुख्येत्यादि ।