________________
३८२
कातन्त्रव्याकरणम् तद्धिते ये स्वरे च। हस्तिन्यां भवो हस्त्यः, हस्तिनीनां समूहो हास्तिकम् । एयणि तु स्त्रीत्वविवक्षा दृश्यते । श्यैनेयः, रौहिणेयः । न च दृश्यते अग्नायी देवता अस्येति आग्नेयः स्थालीपाकः । एवं भवत्याश्छात्रा भवदीयाः, भावत्काः इतीकण आदिलोपो दृश्यते । कुक्कुट्यादीनामण्डादिषु च स्त्रीत्वस्याविवक्षा | कुक्कुट्या अण्डं कुक्कुटाण्डम्, मृग्याः पदं मृगपदम्, काक्याः शावः काकशावः | सतोऽप्यविवक्षा स्यात् । यथा नमिका, एडका, अनुदरा कन्येति । असतश्च विबक्षा - समुद्रः कुण्डिका बिन्ध्यो वर्धितकः । भक्तिशब्दः पूरण्यादौ पठ्यते । दृढभक्तिरित्यपि विवक्षया भवति । समासशब्दपक्षे पुंवद्भावविधानं प्रपञ्चार्थमेव । भाषितपुंस्क इति किमर्थम्, इह मा भूत् - खट्वाभार्यः । तुल्याधिकरण इति किमर्थम् ? कल्याण्या माता कल्याणीमाता | समासप्रस्तावाद् वाक्ये न भवति - कल्याणी भार्या यस्येति ।। ३५५ ।
[वि० प०]
पुंवद्भा० । भाषितपुंस्कानूङ इति । न विद्यते ऊङ् यस्माद् असौ अनूशब्दः । भाषितपुंस्कश्चासावनूङ् चेति विग्रहः । अर्थादित्यादि । ननु कथमेतद् यावता स्त्रियामित्येकमेवेदं पदम् । तच्च सान्निध्यात् परपदमेव निमित्तं विशिष्यते, न तु पूर्वम् । एकेनैव संबन्धेन चरितार्थत्वात् ? सत्यम् । लोके स्त्रियामेव पुमानिव पुंवद् इत्युपमानोपमेयभावः प्रसिद्धः, न तु नपुंसके विशेष्यविशेषणभावस्य प्रयोक्तुरायत्तत्वात् । उभयविशेषणं वा यथा ओदन्ता निपाता अ इ उ आश्च निपाता इति । अथवा परपदस्य स्त्रियां वर्तमानस्य साहचर्यात् पूर्वोऽपि स्त्रीलिङ्ग एव ? तेन स्त्रियां वर्तमानो भाषितपुंस्कानूङ् पुंवदिति । ननु भाषितः पुमान् येन स भाषितपुंस्कः शब्द इति । तदा 'द्रोणीभार्यः' इत्यत्रापि प्राप्नोति । तस्मात् समानायामाकृताविति वक्तव्यम् इत्ययुक्तमित्याह - भाषितपुंस्क इति । भाषितः पुमान् यस्मिन्नर्थे स भाषितपुंस्क इत्यर्थोऽन्यपदार्थत्वेनाश्रितो न तु शब्द इति |
ननु केन पुनः शब्देन तत् पुमान् भाषितः इति चेद् उच्यते – यस्य पुंवद्भावो विधातुमिष्यते, तेनैव तस्यैव प्रत्यासत्तेः । यदि पुनः येन केनचिच्छब्देन भाषितपुंस्क इत्याश्रीयते, तदा भाषितपुंस्कग्रहणमनर्थकं स्याद् व्यवच्छेद्याभावाद् यतोऽर्थशब्देनाप्यधीयमानत्वेन सर्वस्यैवार्थस्य भाषितपुंस्कतोपपत्तेः । अत्र तु द्रोणशब्दः पुंसि परिमाणार्थः