________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
३८१
यदि पुनर्भाषितपुंस्कोऽर्थ पुमर्थो भवतीति अतिदिश्यते, अविशेषादेतेष्वपि पुंबद्भावः स्यात् । ऊङोऽभावश्च यस्मादिति कल्पयितुं न शक्यते, न ह्यर्थे पौर्वापर्यमस्ति । किं च 'कालिम्मन्या, विदुषिम्मन्या' इत्यत्र पुंवद्भावाद् ह्रस्वः पर इति नोपपद्यते | शब्दस्य ह्रस्वत्वम् अर्थस्य पुंवद्भाव इति । अन्य आह - अयं तावददोषः । अर्थादिह विप्रतिषेधो गम्यते । नावश्यं द्विकार्ययोग एव संभवतीति किन्तर्हि असम्भवेऽपि स चात्रास्त्यसंभवः पुंवद्भावो हि विवर्तमानो ह्रस्वस्य निमित्तं व्याहन्ति । ह्रस्वो हि विवर्तमानः पुंवद्भावं बाधते ? एषोऽत्रासंभवः । सत्यसंभवे युक्तो विप्रतिषेधः । पट्वी मृद्व्यौ भार्ये यस्य स पट्वीमृदुभार्य इति भवितव्यम् । यदनन्तरं तुल्याधिकरणे पदे तस्य पुंवद्भावो न व्यवहितस्येति ।
ननु च ‘“ऊङ् संज्ञापूरणीकोपधास्तु न” इति कथन्न विदध्याद् इह वा नञ्ग्रहणमकरणीयं स्यात् । नैवम् । प्रतिषिद्धार्थं हि "कर्मधारयसंज्ञे तु पुंवद्भावो विधीयते" (२/५/२०), स यथा संज्ञापूरणीकोपधानां स्यादेव, ऊङोऽपि ब्रह्मबन्धुवृन्दारिकेति । अथ पृथक् प्रतिषेधेऽपि प्रतिषेधार्थ आबन्तः कथं न भवति ? सत्यम् । तत्र भाषितपुंस्कानूङ् इत्यनुवर्तनात् पृथक्प्रतिषेधसामर्थ्याच्चेति । एवं विगणय्य आह- स्त्रियां वर्तमान इत्यादि । पूरणप्रत्ययान्ता हि स्त्री पूरणीत्युच्यते । कल्याणी पञ्चमी यासां रात्रीणाम् इत्यवयवेन विग्रहः रात्रयो ह्यत्र मुख्या इति समासान्तश्च स्यात् । मुख्येत्यादि । कल्याणी पञ्चमी अस्येति विग्रहे नात्र पूरणार्थं प्रतिपद्यते इति गौणत्वात् पुंवद्भावः । कथं प्रजातभार्यः, प्रसूतभार्यः ? प्रजातप्रसूतशब्दौ स्त्रियां गर्भविमुक्तौ वर्तेते । पुंसि तु गर्भोत्पत्तिनिमित्तमुपादाय यथा प्रजाता व्रीहयः, प्रसूताः शालयो गर्भाधानस्य कारणतां गता इत्यर्थः । स्त्रिया गर्भेण निरवयवेन पुंसश्च सावयवेनेति भिन्नाकृतित्वात् चेत्, नैवम् । प्रजातप्रसूतयोर्विमुक्तौ गर्भाधाने चासत्तासम्बन्धमात्रमभिन्नम् । गर्भस्यान्तर्वर्तित्ववस्तुसम्बन्धमात्रं तुल्यप्रवृत्तिनिमित्तं विवक्षितम् । यथा स्त्रियाम् अश्वायां वा द्विपाच्चतुष्पात्त्वे पुंवदिति योगविभागादित्येके । ‘तस्-त्र-तम-तर-चरट्-जातीय- कल्प- देश्य- देशीय - रूप. पाश - था - धमुण् - धा - दा - थमु - र्हि - इष्ठ - इमन् - ईयसु । स्त्रीत्वस्याविवक्षा | तस्यास्तत इत्यादि । एवं सर्वनाम्नो वृत्तिमात्रे पुंवद्भावो न वक्तव्य एव । तस्या मुखं तन्मुखम्, तस्या इदं तदीयम् । शसि च बह्वर्थस्य बह्वीभ्यो देहि अल्पाभ्यो देहि । बहुशो देहि, अल्पशो देहि । तत्वयोर्गुणवचनस्य पट्ट्या भावः पटुता, पटुत्वम् ।
-