________________
३८४
कातन्त्रव्याकरणम्
यत्तु स्त्रीत्वविशिष्टत्वे समासवाच्यं तन्मुख्यमित्यर्थः । ननु सूत्रे पूरणीमात्रस्य ग्रहणात् कथं मुख्यस्यैव ग्रहणं चेत् पूरणीति ईकारनिर्देशात्, अन्यथा पूरणादिष्विति कुर्यात् । पूरण्यादिगणमाह - प्रियेत्यादि । तर्हि कथं 'दर्शितशिष्यभक्तिः, दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः' इत्यादिषु भक्तिशब्दे पुंवत् स्यात् ? सत्यम् । भक्तिशब्दो हि द्विविध:- कर्मसाधनो भावसाधनश्च । तत्र च सुभगादिशब्दस्य द्रव्यवाचिनः साहचर्याद् भक्तिशब्दोऽत्र कर्मसाधनो द्रव्यवाची गृह्यते । अत एव कुलचन्द्रोऽपि भज्यते इति भक्तिः कर्मण्येव पूण्यादिरित्याह - आदिशब्दस्य व्यवस्थावाचित्वादित्यन्ये | टीकाकृता तु दृढभक्तिरिति विवक्षयेत्युक्तम् । तस्याप्ययमाशयः- विशेषोक्तमिति विवक्षया पुनः कर्मसाधनं व्याख्यायेत्यर्थस्य कर्तव्यत्वात् ।
ननूत्तरत्र ऊङ् संज्ञापूरणीकोपधास्तु नेति क्रियतां किमिहोङः प्रतिषेधेन । नैवम् । प्रतिषेधो हि "कर्मधारयसंज्ञे तु" (२/५/२०) इत्यादिना पुंवद्भावार्थः । स यथा संज्ञापूरणीकोपधानां स्यात्, तथा ऊङः कथं न स्याद् ब्रह्मबन्धूदारिकेति टीका । कथं प्रजातभार्यः, प्रसूतभार्यः । प्रजात-प्रसूतशब्दौ स्त्रियां गर्भविमुक्तौ वर्तते । पुंसि तु गर्भोत्पत्तिनिमित्तमुपादाय यथा प्रजाता व्रीहयो गर्भाधानस्य कारणताङ्गता इत्यर्थ । स्त्रियां हि गर्भेण निरवयवेन संबन्धः । पुंसि तु सावयवेनेति भिन्नाकृतित्वात् चेत्, नैवम् । प्रजातप्रसूतयोर्विमुक्तौ गर्भाधाने सत्तासंबन्धमात्रमभिन्नं गर्भान्तमात्रभिन्नमिति तुल्यप्रवृत्तिनिमित्तत्वं विवक्षितम् । यथा स्त्रियामश्वायां वा द्विपाच्चतुष्मात्त्वेऽपि गर्भस्यान्तर्वर्तित्वेन तुल्यतेति | पुंवदिति योगविभागादिति अपरे | योगविभागे च विपरीतनिर्देशो बीजम् । तथा 'तस्-त्र-तम-तर- चरट्-जातीय- कल्प-देश्य- देशीय-रूप-पाशधमुण्-थमु-था-दा-धा-हि-इष्ठ-ईयन्सु' । स्त्रीत्वस्याविवक्षा । तस्यास्तत इत्यादि । एवं 'सर्वनाम्नो' वृत्तिमात्रे पुंवद्' इति न वाच्यम् । तस्या मुखं तन्मुखम् इत्यादयः । अन्यत् टीकाया-मूहनीयम् । पञ्यां चरितार्थत्वादिति | शब्दबुद्धिकर्मणां विवरणस्य व्यापाराभावादित्यर्थः । “ओदन्ताः" (१/३/१) इत्यत्र बहुवचनबलादुभयविशेषणता । इह तु कथमित्याहअथवेति ||३५५।
[समीक्षा]
'दर्शनीया भार्या यस्य, दीर्घा जङ्घा यस्य' आदि में समास के अनन्तर पूर्वपद 'दर्शनीया' तथा 'जङ्घा' को पुंवद्भाव दोनों आचार्य करते हैं । पाणिनि का सूत्र