________________
नामवतुष्टपाध्याये षष्ठस्तद्धितपादः
४६७ उदाहरणं यथायोग्यम् । नाभेर्नभश्च । नभ्यं काष्ठम् । शुनः संप्रसारण दीर्घश्च वा । शुन्यम्, शून्यम् । ऊधसो नश्च । ऊधन्यः कूपः । कम्बलात् परिमाणात् संज्ञायाम् । कम्बल्यम् ऊर्णापलशतम् . संज्ञायामिति किम् ? कम्बलीया ऊर्णाः । देहावयवाच्च । दन्त्यम्, राजदन्त्यम् । नाभ्यं तैलम् । नभादेशोऽत्र नास्ति वचनान्तरात् । खल्यम्, यव्यम्, माष्यम्, तिल्यम्, ब्रह्मण्यम् । रथाय हिता रथ्याः । हविर्वचनापूपादिभ्यो वा । पुरोडाश्याः पुरोडाशीयास्तण्डुलाः । हविःशब्दात् पूर्वेण नित्यम् - यूप्यम्, यूपीयम् । तदन्तविधिना परमयूप्यम्, परमयूपीयम् । अन्नविकाराच्च - ओदन्या ओदनीयास्तण्डुलाः । अपूपादीनां तु हिरण्यविकारे रजतविकारे वा स्थितानां पाठो द्रष्टव्यः । तथा पथि साधु पथ्यं भेषजमेव । पथि साधु पाथेयमिति च दृश्यते । एवम् आतिथ्यम् । वासतेयम्, स्वापतेयम् । तथा च - पथ्यतिथिवसतिस्वपतिधर्मेभ्योऽनपेत इति वचनं न वाच्यम् । तथा प्रासादोऽस्य स्यात् प्रासाद्यं दारु ।परशव्यमयः ।प्रासादोऽस्मिन् स्यादिति प्रासादीयो देश इति टीका ||३७७।
[समीक्षा]
कातन्त्रकार ने जिस यत् प्रत्यय के लिए प्रकृत एक ही सूत्र बनाया है, उसके लिए पाणिनि ने छह सूत्र बनाए हैं - "उगवादिभ्यो यत्, कम्बलाच्च संज्ञायाम्, विभाषा हविरपूपादिभ्यः, तस्मै हितम्, शरीरावयवाद् यत्, खलयवमाषतिलवृषब्रह्मणश्च" (अ० ५/१/२-७)। इस प्रकार पाणिनीय व्याकरण में गौरव स्पष्ट है ।
[विशिष्ट वचन] १. विकृतिवाचिनः शब्दात् प्रकृतावभिधेयायां यथोक्तं हितेऽर्थे प्रत्ययो मन्तव्यः (दु० वृ०)। २. विचित्रा हि सूत्रस्य कृतिः (दु० टी०)। ३. अवयवा हि समुदायमारभमाणाः समुदायस्य प्रकृतिभिर्युज्यन्ते (दु० टी०)। ४. द्विविधा हि समुदायाः- पुरुषनिर्माणा दैवनिर्माणाश्च (दु० टी०)। ५.बाह्वादिगणे उपबाहुपाठेन ज्ञापितम् – गणे ग्रहणवता लिङ्गेन तदन्तविधिर्नास्तीति (क० च०)।