________________
कातन्वव्याकरणम्
अवयवा हि समुदायमारभमाणाः समुदायस्य प्रकृतिभिर्युज्यन्ते । नैवम्, द्विविधा हि समुदायाः- पुरुषनिर्माणा दैवनिर्माणाश्च, तत्र पुरुषनिर्माणेषु पटादिषु तन्त्वादिप्रकृतयः पटादयो भवन्ति । दैवनिर्माणेषु वृक्षादिषु समुदायादेकदेशान् यूपादीनुपलभामहे । तथा च 'खादिरो यूपः' इति विकारविधिः प्रदर्श्यते । किमनेन प्रलापेन – 'रूढिशब्दा हि तद्धिताः' इति । तथा च “पथ्यतिथिवसतिस्वपतिधर्मेभ्योऽनपेते" (४/४/१०४) इति वचनं नाद्रियते । यत् पथोऽनपेतं तत् पथि साध्विति यप्रत्ययेन व्युत्पाद्यते । पथ्यं भेषजमेव रूढम् । पथि साधु पाथेयमिति च दृश्यते । ___एवम् ‘आतिथेयम्, स्वापतेयम्, वासतेयम्' । यथोक्तम् । प्रकृताविति किम् । अयसे कोषी । तस्मा इति किम् ? सक्तूनां धाना इति । यदि वाक्यं न विवक्ष्यते तथा हितेऽर्थे केन वार्यते । तदस्यास्मिन् स्यादित्यर्थे यदीयौ यथोक्तौ । प्रासादोऽस्य स्यात् प्रासाद्यं दारु, प्रासादीयो देशः । यस्य यस्मिन् वा प्रासादः सम्भाव्यते तत् तस्य हितमिति सिद्धम् ।।३७७।
[वि० प०]
यदु० । उवर्णाश्च गवादयश्चेति सूत्रत्वान्मध्यपदलोपी द्वन्द्व इत्याह - उवर्णान्तादित्यादि । उगवादिभ्य उगवादित इति पञ्चम्यन्तात् तस् । कृकवाकव्यम् इति "उवर्णस्त्वोत्वमापायः" (२/६/४६) इत्योकारः । “कार्याववावा०"(२/६/४८) इत्यादिनाऽवादेशः । एवम् अन्यत्रापि । विकृतीत्यादि । एतेन विकृतेः प्रकृताविति न वक्तव्यम् इति दर्शयति । अङ्गारीयाणीत्यादि । अत्रापि हितार्थस्य विद्यमानत्वात् । तथाहि यान्यङ्गारेभ्यः काष्ठानि तानि तेभ्यो हितानि भवन्ति । यश्च पिचुभ्यस्तूलेभ्यः कार्पासः स तेभ्यो हित इति । अत इदमुक्तम्, यथोक्तं हितेऽर्थे प्रत्ययो न्तव्य इति । यथोक्तमिति यो यत्रोक्तः स प्रत्ययस्तस्मादित्यर्थः ।। ३७७।
[क० च०]
यदु० । पूर्वस्यापवादोऽयम् । ननु बाह्वादिगणे उपबाहुपाठेन ज्ञापितम् । गणे ग्रहणवता लिङ्गेन तदन्तविधिर्नास्तीति । तत् कथं सुगव्यमित्यादि सिद्धम् इत्याशयेनाह - इष्ट इति । गवादिसंख्यानमाह -गोहविसिति । यूपादिभ्यो वा : यूप-दीप-अपूप-तण्डुलपृथुक अभ्यूष-अकोष-किन्न-मुषल-कटक-कर्ण - वेष्टक-पुग़ल - स्थूल |अन्नविकाराच्च ।