________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
४६५
सुगव्यम्, अतिगव्यम् इति तदन्तविधिरिष्टः । 'गो-हविस्-अष्टका, बर्हिस्, मेधा, श्रुच' इत्यादयोऽप्यनुसर्तव्याः । विकृतिवाचिनः शब्दात् प्रकृतावभिधेयायां यथोक्तं हितेऽर्थे प्रत्ययो मन्तव्यः । अङ्गारीयाणि काष्ठानि, पिचव्यः कार्पासः || ३७७ |
[दु० टी०]
यदु० । उवर्णश्च गवादिश्च उगवादी । मध्यपदलोपी द्वन्द्वोऽयमित्याह-उवर्णान्तादिति ।‘विचित्रा हि सूत्रस्य कृतिः' इत्याविर्भावनपर एवायं निर्देशः पूर्वस्यापवादोऽयम् । श्रुच इत्यादय इति । नाभेर्नभश्च । ऊधसो नश्च । शुनः सम्प्रसारणं वा दीर्घश्च । अक्षबदर-बिद-स्खद-विष-कम्बलात् परिमाणात् संज्ञायाम् । देहावयवाच्च । खल-यव-माषतिल-वृष-ब्रह्मन्-रथाद् हविर्वचनयूपादिभ्यो वा । यूप-दीप- अपूप- तण्डुल- पृथुक-अभ्यूषअवोष-किन्न-मुषल-कण्टक-कर्ण-वेष्टक- अर्गल-स्थूल | अन्नविकाराच्च । गणसूत्रोदाहरणं क्रमश उच्यते -
नाभेर्नभश्च । नभ्यं काष्ठम् । शुनः सम्प्रसारणं वा दीर्घश्य न्यम्, शून्यम् । ऊधसो नश्च । ऊधन्यः कूपः । कम्बलात् परिमाणात् संज्ञायाम् - कम्बल्यम् ऊर्णापलशतम् । संज्ञायामिति किम् ? . बलीया ऊर्णाः । देहावयवाच्च । दन्त्यम्, राजदन्त्यम्, नाभ्यं तैलम् । नभादेशोऽत्र नास्ति, वचनान्तरत्वात् । रथाय हिता रथ्याः । हविर्वचनयूपादिभ्यो वा । पुरोडाशीयास्तण्डुलाः । हविः शब्दात् पूर्वेण नित्यम् । यूप्यं यूपीयं काष्ठम् । तदन्तविधिना परमयूप्यम्,परमयूपीयम् | अन्नविकाराच्च । ओदन्या ओदनीयास्तण्डुलाः । अपूपादीनां तु हिरण्यविकारे रजतविकारे च स्थितानां पाठो द्रष्टव्यः । विकृतिवाचिन इत्यादि | अङ्गारीयाणि काष्ठानि इति यान्यङ्गारार्थानि काष्ठानि तान्यङ्गारेभ्यो हितानीति भावः ।
एवं पिचव्यः कार्पासः । नाभये हितं नभ्यं चक्रमिति । चक्रार्थमपि काष्ठं चक्रम्, तादर्थ्यात् । विकृतेः प्रकृतावित्यस्मिन्नर्थे या नाभिरवयववति चक्रे तस्याः पृथग्भूतमेव काष्ठं प्रकृतिरिति तन्नभ्यमित्युच्यते । या तु मण्डलचक्रे फलचक्रे वा न तस्याः पृथक्प्रकृतिरस्ति समुदाय एव कुतश्चित् काष्ठान्निष्पन्नो योऽवयवोऽयं धारयति स नाभिरुच्यते, ततश्च नभ्यमिति न स्यादित्याह – समुदायावयवयोस्तालव्यादवश्यं भेद एपितव्यः - ‘वार्क्षी शाखा' इति सिद्धये । ननु सत्यपि भेदे समुदायो नावयवस्य प्रकृतिः ।