________________
५५७
परिशिष्टम् -१ कालस्य कालभेदानामध्वमानस्य चादिमैः।
क्रियाणामथ देशानां कालादित्वमिहेष्यते ॥ कं कालं स्वपिति, कः कालः सुप्यते, कस्य कालस्य स्वप्ता । एवं ग्रीष्मं स्वपिति, ग्रीष्मः सुप्यते, ग्रीष्मस्य स्वप्ता ।अध्वमानं क्रोशादिक्रोशं स्वपिति, क्रोशः सुप्यते, क्रोशस्य स्वप्ता | गोदोहं स्वपिति, गोदोहः सुप्यते, गोदोहस्य स्वप्ता ।
देशः कुरुमत्स्यादिः । कुरून् स्वपिति, कुरवः सुप्यन्ते, कुरूणां स्वप्ता । त्प्रत्यय इति किम् ? कुरून् सुप्तः । सत्यपि कर्मणि कर्तरि क्ते धातोरकर्मकतैव । असङ्गमिति किम् ? कस्मिन् काले शेते ग्रीष्मे वा । अधिकरणे विभाषया विधिरयमिति पूर्वे । ध्रौव्यस्येति किम् ? रात्रेरोदनं पचति । कैश्चित् सकर्मकयोगेऽपीष्यते । रात्रिमोदनः पच्यते । रात्रिरोदनं पच्यते । तन्मते पर्यायेण कर्माभिधानमिष्टम् । इह कालादेर्गम्यमानक्रियान्तरकर्मत्वे कर्मणि विषयो नाकर्मकधातुभाजः स्युः । नापि व्याप्तावेषां वृत्तिः कालादेरन्यस्यापि कर्मतापत्तेः, अतोऽयमारम्भः ।।१५।
१६. दिवस्तेन करणम् तेन कर्मणा सहैव दिवः करणं भवति । करणविषये युगपदिहानूपसंज्ञे स्यातामित्यर्थः । अक्षान् दीव्यति, अक्षैर्वा । अक्षा दीव्यन्ते । न जातु 'अक्षैर्दीव्यते' इति भावे । अक्षादेः करणत्वेऽपि दिवः सकर्मकत्वात् । तथा अक्षा द्यूतास्तेन न जातु अझैठूतोऽयम्, तथा अक्षैर्देवयते छात्रेणेति न कर्तुः कर्मता, आत्मनेपदं तु स्यात् । अक्षैर्दीव्यन्ति अस्मिन् इत्यधिकरणे क्तोऽपि न स्यात्, अक्षाणां देविता न जातु अक्षर्देवितेति परत्वात् कृद्योगलक्षणाषष्ठी नित्यम् । क्रीडार्थत्वेनाकर्मकत्वे करणावस्थायामेव कर्मत्वसमावेशार्थं वचनं कथमन्यैः प्रत्याख्यातम् । वार्तिकेऽपि युगपद् उभयसंज्ञासमावेशोऽत्र चिन्तितः ।।१६।
१७. द्वितीयाकारकविधावेकाधिकरणधातोः द्वितीयाकारकविधौ च धातोरेकाधिकरणं कर्म भवति । इदमत्र स्थीयते छात्रैः, अथो एनदिह स्थीयतेऽधीयानैः । एतदिह स्थाल्यां पचति माषान्, अथो एनदिह काष्ठैः स्थाल्यां पचति तण्डुलान् । द्वितीयायामेनः स्यात् । धात्वर्थोऽपीदमेतद्भ्यां शीघ्रादिभिरिव विशिष्यते इति मतम् । द्वितीयासमासश्च प्रयोजनं शीघ्रं गतः, शीघ्रगतः । शीघ्रं