________________
कातन्त्रव्याकरणम्
___कथं त्रिरात्रमुपवसति, कालादिलक्षणं कर्म स्यादेव ग्राममभिनिविशते इति व्याप्यत्वात् । ग्रामेऽभिनिविशते इति तु स्यादेव । तथा च या या संज्ञा यस्मिन् यस्मिन्नभिनिविशते इति भाष्यम् । ‘स्वहस्तदत्ते मुनिमासने मुनिश्चिरन्तनस्तावदभिन्यवीविशत्' (शिशु० १/१५)। दुहादयस्तु ट्यात्मकक्रियत्वादेव द्विकर्मकाः । भाष्येऽपि हि विशेषणलक्षणमिह प्रपञ्चार्थम् । तदुक्तम् – 'तथैकमेव कर्मापि लक्षणेन प्रपञ्च्यते' इति । गां दोग्धि, पयो मोचयतीत्यर्थः । तथा च ‘यः पयो दोग्धि पाषाणम्' इति भट्टिः । शिष्यं धर्मं वदति, प्रतिपादयतीत्यर्थः । एवं शिष्यं धर्मं ब्रूते, शिष्यं धर्ममाचष्टे, शिष्यं धर्मं गदति, शिष्यं धर्ममुपदिशतीत्यादि । शत्रून् शतानि जयति । शतानां ग्रहणेन शत्रून् पराभवतीत्यर्थः । प्रजाः शतानि दण्डयति, शतानां ग्रहणेन शास्तीत्यर्थः । जलधिममृतं मथ्नाति स्म । जलधिम् उन्मथ्यामृतमुत्त्थापितवानित्यर्थः । पान्थं पन्थानं पृच्छति । जिज्ञास्यमभिधातुं प्रेरयतीत्यर्थः । अधीशमर्थं प्रार्थयति, दातुं प्रेरयतीत्यर्थः ।
___ एवं याचते, भिक्षते । वरं वृणीते देवान् । अर्थनम् इहाभ्यर्थनं च । तेन पुत्रमध्ययनं याचते । अजां नयति ग्रामम्, प्रापयतीत्यर्थः । एवं वहति, हरति । शिष्यं धर्ममनुशास्ति । धमदिशनया विनयतीत्यर्थः । शाखां कर्षति ग्रामम्, विकृष्य नयतीत्यर्थः । ग्राममवरुणद्धि व्रजम्, गामन्तः स्थापयन् व्रजमप्यावृणोतीत्यर्थः ।गां ब्रजं प्रवेशयतीत्यन्ये ।वृक्षमवचिनोति फलानि, तत् संघट्टयन् फलानि निकृन्तति आदत्ते वेत्यर्थः
दुहिर्वदत्यर्थ - जिदण्डि - मन्थः प्रच्छादनार्थो नयनार्थशासौ। कृषी रुधिश्चिञ् च तथार्थवृत्तौ द्विकर्मकोऽयं कथितो दुहादिः॥१४॥
१५. तत्प्रत्ययेऽसङ्ग कालादि ध्रौव्यस्य ध्रौव्यस्याकर्मकधात्वर्थस्य प्रयोगेऽपादानादिसंज्ञानामविषयः कालादिकः कर्म भवति, तत्प्रत्यये कर्मप्रत्यये कर्तव्ये नान्यत्र |