________________
५५५
परिशिष्टम् -१
१०. करणं कर्म यजेः कर्म च सम्प्रदानम् यजेः कर्म करणं भवति, सम्प्रदानं च कर्म भवति । पशुना रुद्रं यजते । दानार्थे यजतौ पशोः कर्मत्वं रुद्रस्य च सम्प्रदानत्वं मा भूद् इत्यारम्भः । एतदुदाहरणविषयैव स्मृतिरियमिति वृद्धाः। 'स्वरे प्रकृत्या' इति निर्देशात् साधकतमादन्यस्यापि क्वचित् करणत्वम् । प्रकृत्या पटुः । प्रायेण कृपणः । करणत्वात् प्रकृतिरमणीय इति समासः स्यात् ।।१०।
११. उपसर्गे क्रुधगृहोः उपसर्गे सत्यनयोः सम्प्रदानं कर्म भवति । शिष्यमभिक्रुध्यति, शिष्योऽभिक्रुध्यते, शिष्यस्याभिक्रोद्धा | छात्रमभिद्रुह्यति, छात्रोऽभिद्रुह्यते अनेन, छात्रस्याभिद्रोढा । क्रुधद्रुहोरिति किम् ? छात्राय प्रकुप्यति, छात्राय व्यारुष्यति । सम्प्रदानापवादोऽयम् ।।११।।
१२. आधारोऽधिशीडासस्थां ध्रौव्ये अधिपूर्वाणामेषामकर्मकत्वे सत्याधारः कर्म भवति । मञ्चमधिशेते, मञ्चमध्यास्ते, मञ्चमधितिष्ठति । ध्रौव्य इति किम् ? रणेऽधितिष्ठति, राजानमवेक्षते इत्यर्थः । कथं गृहेऽधिशेते शय्याम् | शय्यास्थितेराधारो गृहम्, न त्वधिशीङः । रथमातिष्ठतीत्यारोहणार्थत्वात् सकर्मकः । अनुपूर्वो जनिरपि तत्पूर्वीकरणपूर्वके जन्मनि सकर्मकः । यथा पुत्रम् अनुजाता कन्या । वचनमिदं त्वधिकरणनिवृत्त्यर्थम् ।। १२ ।
१३. अन्वध्याडो वसतेः अन्वध्यापूर्वस्य वसतेराधारः कर्म भवति । तीर्थमनुवसति, तीर्थमधिवसति, तीर्थमावसति । तिनिर्देशाद् गृहेऽनुवस्ते ।। १३ ।
१४. उपान्निवासे उपात् परस्य वसतेराधारः कर्म भवति निवासेऽर्थे । तीर्थमुपवसति, ग्राममुपवसति । निवास इति किम् ? तीर्थे उपवसति, उपवासं करोतीत्यर्थः । भाष्ये तु गम्यमानस्य वसतेरधिकरणं तीर्थादिकं न तूपवसतेरिह कर्मत्वं परिहतम् । तदानशनार्थस्योपवसतेराधारत्वे विवक्षिते तीर्धादे : कर्मत्वं स्यात् । तीर्थादरधिकरणस्य कर्मत्वे उपवसनमुपोषितमिदमस्येत्यधिकरणे युट्क्तौ च न स्यातामिति चिन्त्यम् । वार्तिकेऽप्यनशनार्थस्योपवसतेः प्रतिषेध एव प्रमाणम् ।