________________
कातन्त्रव्याकरणम्
५. सम्प्रदानम् इदमधिक्रियते ।। ५।
६. विप्रश्ने यस्य राधीक्षौ शुभमशुभं वा दैवम् इति निरूपणं विप्रश्नः । यस्य विप्रश्ने राधीक्षौ तत् सम्प्रदानं भवति । नाथाय राध्यन्ति, नाथायेक्षन्ते गणकाः, नाथस्य शुभाशुभं निरूपयन्तीत्यर्थः । विप्रश्न इति किम् ? विप्रस्य राध्यति, पुत्रस्येक्षते । इह च तादर्थ्यमस्त्येव । विप्रश्ने षष्ठी मा भूदित्यारम्भः ।।६।
७. प्रत्याश्रुरभ्युपगमे यस्यार्थिनोऽभ्युपगमेऽङ्गीकारे प्रत्यापूर्वः शृणोतिः सोऽर्थयिता सम्प्रदानं भवति । छात्राय प्रतिशृणोति, छात्राय आशृणोति । प्रार्थयितुश्छात्रस्याभ्युपगच्छतीत्यर्थः । इदमपि पूर्ववत् ।।७।
८. व्याप्यं प्रत्यनुगृणः प्रत्यनुपूर्वस्य गृणातेप्प्यं सम्प्रदानं भवति । होत्रे प्रतिगृणाति, होत्रेऽनुगृणाति । तं शंसन्तं प्रोत्साहयतीत्यर्थः । प्रत्यन्विति किम् ? वाक्यमागृणाति । क्रैयादिकः किम् ? पूपान् प्रतिगिरति । कर्मनिवृत्त्यर्थोऽयम् ।। ८ ।
९. यं प्रति च कोपः 'यं प्रति च कोपो भवति, यच्चास्य व्याप्यम्' ते सम्प्रदाने भवतः । मित्राय कुप्यति, मित्राय क्रुध्यति । कोपार्थस्याकर्मकत्वाद् व्याप्यम् अर्थान्तराभिसंबन्धेन भवति । छात्राय द्रुह्यति, कोपेनापकृतिरिह द्रोहः । शिष्यायेय॑ति । क्रोधेनासहनमिहेा । मित्रायासूयति । क्रोधेन गुणिनोऽपि सदोषत्वाविष्करणमिहासूया । यद्यपि अहिताचरणं द्रोहः, ईर्ष्या अक्षमा | गुणिनोऽपि सदोषत्वाविष्करणमसूयेति कोपादर्थान्तराणि तथापि कोपपूर्वको द्रोहादिरिहार्थात् कोपस्तदभावे तु दस्युं द्रुह्यति । दासीमीय॑ति । पुत्रमसूयति, पुष्पेभ्यः स्पृहयतीति प्राप्तमुपयुक्तं वेति गम्यमानतुमः कर्मणि तादर्थे वा पुष्पाणि स्पृहयतीति चेष्टमेव । तन्त्रान्तरेऽपीप्सितत्वे सम्प्रदानम् ईप्सिततमत्वे कर्मैवेति समर्थितम् । अत एब स्पृहणीयं वपुरिति कर्मणि अनीयः ।। ९ ।