________________
कातन्त्रव्याकरणम्
गमी,शीघ्रगमी । कारकविधौ च स्तोकं विध्यति स्तोकावित् । न हि वृतीत्यादिनां क्विब्वृत्तौ कारकस्य दीर्घः । स्तोकन्यः, स्तोकल्वः । कारकोपपदाद् य्वौ स्तः | अत्रेति किम् ? स्तोकं गन्तेति । कृति न षष्ठी । स्तोकं स्वापयति छात्रमिति ध्रौव्यार्थत्वात् कर्तुः कर्मता । तथा स्थितानि सुखमागाराणि छात्रस्येति अधिकरणे क्तः । स्तोकं भीत इति च कर्तरि क्तः स्यात् । कथं स्तोकं पाकः ? कृदन्तविशेषणत्वात् । धात्वेकाधिकरणे हि स्तोकमोदनस्य पाक इति स्यादेव || १७|
५५८
१८. धौव्यगतिबुद्धिशब्दाभ्यवहारार्थानां कर्ता हेत्विनि
एषां कर्ता हेत्विनि कर्म भवति । ध्रौव्यार्थोऽकर्मकः । जीवयति भृत्यान्, स्वापयति स्वामिनम्, मासमासयति छात्रम् इति च । तथा "तेनादुद्यूषयद् रामं मृगेण मृगलोचना' तेनेति न दिवः करणम्, किन्तु दुद्यूषेरित्यकर्मकतैव । गत्यर्थस्य 'ग्रामं गमयति भृत्यान्, आढयति ग्रामं भृत्यान्' | प्रवेशारोहणतरणान्यपि गतयः ।
प्रावेशयन्पन्दिरमध्यमेनं ततोऽङ्कमारोप्य सुतां प्रतस्थे । प्रियामुदन्वन्तमतीतरद्धरेः ॥
गत्यर्थानां ग्रहणे प्राप्त्यर्थानामपि ग्रहणमिति स्मृतिः । धृतनवातपमुत्सुकतामतो न कमलं कमलम्भयदम्भसि । अस्त्रवेदविदयं मरुत्वता शैलवासमनुनीय लम्भितः ॥ 'ननु मां प्रापय पत्युरन्तिकम्' इति ।
-
बुद्ध्यर्थस्य - बोधयति शास्त्रं शिष्यम्, ज्ञापयति शास्त्रं शिष्यम्, श्रावयति नूपुरशिञ्जितानि वोढारम्, ईक्षयति विभ्रमं लोकान्, घ्रापयति च्छात्रमामोदम् । शब्दार्थस्य - पाठयति, अध्यापयति, सम्भाषयति मित्रमिति च । अभ्यवहारार्थस्य भोजयति च्छात्रमोदनम्, पाययति च्छात्रमुदकम् । एषामिति किम् ? पाचयत्योदनं भृत्येन गृही, एषयत्यौषधमातुरेण भिषक् । यन्मतेऽपीच्छा ज्ञानभेदस्तन्मतेऽपि ज्ञानार्थस्य ग्रहणे नेच्छार्थस्य ग्रहणं ञनुबन्धादिसूत्रे द्वयोरुपादानात् ।‘मूलकेनोपदंशं भुङ्क्ते, ब्राह्मणायाहूय ददाति' इत्यादिवन्न भिन्नक्रिययोः कारकयोरिह परत्वम्, किन्त्वेकपदेन क्रिययोरभिधानाद् युगपदुभयक्रियासम्बन्धे प्रधानमित्यर्धमपेक्ष्य सर्वत्र कर्मत्वं सिद्धमिति ।