________________
परिशिष्टम् -१
५५९ अमीषामेव कर्ता हेत्विनि कर्मेति पातलो नियमः । भर्तृहरिणाप्येवमुक्तम् -
गुणक्रियायां स्वातन्त्र्यात प्रेषणे कर्मतां गतः।
नियमात् कर्मसंज्ञायाः स्वधर्मेणावतिष्ठते ॥(वा०प०३/७/१२७) इति । गुणक्रियानिबन्धनान्यपि हि कारकाणि भवन्ति इत्येकपदोपात्तक्रियाद्वयसम्बन्धे परत्वात् कर्तृत्वे प्राप्ते विधिरयमिति पारायणकारस्यापि मते फलस्याविसंवादः । लब्धकर्तृभावस्यैव प्रयोजको हेतुरित्युक्तम् । हेतुव्यापारे चास्यावसरः । इहापि लब्धकर्तृभावस्यैव कर्मत्वमुपदिश्यते । ततः कर्तृत्वेन सहास्य विप्रतिषेधाभावे निरवकाशतया कर्तृत्वमेवानेनापढूयते इति न्याय्यम् । प्रवृत्तापि हि संज्ञा बलवत्या संज्ञया बाध्यत एव, इह तूभयसंज्ञासमावेशो नास्तीति हेतुश्चेति चकारेण ज्ञापितम् । पूर्ववत् परत्वाभावे सर्वत्रोभयप्राप्तावेषां कर्मैवेति नियमाद् अन्येषां कर्तृकर्मणी स्तः इति चान्ये | तन्मते
मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या। अजीग्रहत् तं जनको धनुस्तद् येनार्दिदद् दैत्यपुरं पिनाकी ॥ त्रिवर्गपारीणमसौ भवन्तमध्यासयन्नासनमेकमिन्द्रः।
प्रीतोऽहं भोजयिष्यामि भवती भुवनत्रयम् ।। इति च प्रयोगाः । तदा हकृञोर्वावचनमकर्मकाभ्यवहारार्थयोर्नित्यं मा भूदिति कथं प्रपञ्चार्थमिति लघुवृत्तिकृतोक्तम् ||१८|
१९. भक्षे जि हिंसायाम् हिंसेह जीवोपघातः । हिंसायामेव भुज्यर्थे वृत्तस्य भक्षेः कर्ता हेत्विनि कर्म भवति । भक्षयति शुनीं वराहान् । भक्षयति श्येनं विहङ्गान् । भुजीति किम् ? भक्षयति प्रजामनुचरैः कुनृपः । हिंसायामिति किम् ? भक्षयत्योदनं पान्थेन । कथं भक्षयति व्रीहीन् वृषभम् । भक्षयत्युद्भिदानि उष्ट्रमिति च ? बीजादीनामपि जीवयोगः श्रुतौ समर्थितः, स्मृतिश्चामुमर्थमनुगृह्णाति ।।१९।
२०. बहेर्नियन्तृहेतावधृनि उपदेशाद् वोढुमक्षमाणां क्रियया वाहयिता नियन्ता तस्मिन्नित्यर्थस्य कर्तरि अधृञर्थे वहे: कर्ता कर्म भवति । वाहयति रथमश्वान् सूतः, वाहयति गोणीं वृषभं