________________
५६०
कातन्त्रव्याकरणम् दासः । नियन्तृहेताविति किम् ? वाहयति भारं भृत्येन गृही । अधृञीति किम् ? वाहयति कुण्डलं कुमारेण | वहिरिह धारणार्थः । यथा सौरभं वहति, विभ्रमं वहति । 'वसन्तपुष्पाभरणं वहन्ती' ।।२०।
२१. वा कृहजोः अनयोः कर्ता हेत्विनि कर्म भवति वा । कारयति कटं भृत्यम् भृत्येन वा नाथः । विकारयति चित्तं चित्तेन वा वसन्तः । हारयति भारं भृत्यं भृत्येन वा नाथः । अभ्यवहारयत्योदनं छात्रं छात्रेण वा गृही । उभयत्र विभाषेयम् ।।२१।
२२. दृश्यभिवायोरात्मने आत्मनेपदेऽनयोः कर्ता हेत्विनि कर्म भवति वा । दर्शयते भृत्यान् भृत्यैर्वा राजानमयम् । अभिवादयते शिष्यं शिष्येण वा उपाध्यायमसौ । आत्मन इति किम् ? दर्शयति पन्थानं पान्थम्, अभिवादयति पौत्रेण पितामहम् । दृशेः प्राप्तावभिवादयतेरप्राप्तौ विभाषेयम् । येऽपि द्वितीयाधिकारे सूत्राण्यमूनि पठन्ति तैरिहान्येषु कर्मविधिषु प्रतिविधातव्यम् ।।२२।
२३. न खाद्यदिशब्दायक्रन्दह्वाम् एषां कर्ता हेत्विनि कर्म न भवति । खादयत्योदनं माणवकेन, आदयत्योदनं माणवकेन ।शब्दाययति घण्टया गौः । क्रन्दयति दारैः कृपणः ।आह्वाययति मित्रं भृत्येन । भाव्येऽपि नीग्रहणमिह प्रत्याख्यातम् । नाययति भारं ग्रामं भृत्येन | प्रापणार्थवृत्तित्वादेवाप्रसङ्गादिति । निर्णायति, उन्नायतीति ज्ञानार्थत्वात् प्राप्तेः । नियः प्रतिषेध इत्यपि न प्रमाणम्, वार्तिक गत्यर्थे नीवह्योः प्रतिषेध एवेति ज्ञानार्थस्य नियोऽप्रतिषेधात् । चान्द्रे त्वविशेषेण नियः प्रतिषेधः । इह कादिषट्सु कारकम् इति रूढं संज्ञाः प्रक्रम्याथ विभक्तीरुपक्रमेत । तत्र प्रथमाविधौ न किञ्चित् परिशिष्यते इति न तत्रोपक्रमः । तथाहि अवधिमतोऽध्वमानात् प्रथमा सिद्धैव स्वान्तावधिदेशेऽपि क्रोशादिर्वर्तते-नद्या : क्रोशो घोषः । तथा द्रोणो व्रीहिरिति पदाध्यारोपात् । तथा दण्डः पुरुषः, गौर्वाहीक इति ।