________________
परिशिष्टम् -१
५६१ किञ्च नक्षत्राणां काल इव द्रोणादीनां परिमेयोऽर्थोऽनधिक एवोभयत्राप्यर्थान्तरवृत्तेरविशेषात् । नापि संख्याधिक्ये प्रथमार्थमुपक्रमो वचनरूपायाः प्रथमायास्तन्नान्तरीयकत्वात् । असंख्येभ्योऽव्ययेभ्यस्तु ज्ञापकाद् विभक्तिरिति ।नाप्युक्तासु संख्यास्वेकादिभ्यः प्रथमार्थमुपक्रमो विशेषाणामप्रसङ्गात् । तस्मात् संख्यासूक्तासु प्रयुक्तिरेष्टव्या । यथा "स्यातां यदि पदे वे तु" (२।५।९) इति, नापि लिङ्गेषु लिङ्गार्थत्वात् । अन्यथा द्वितीयादिषु लिङ्गावगमो दुरुपपादः शास्त्रीयो हि विभक्त्यर्थ इति । किञ्च लिङ्गानामलिङ्गार्थत्वे नपुंसकादित्यादि वचनं नोपपद्यते नपुंसकाद्यभिधायितया हि प्रकृतीनां नपुंसकादिव्यपदेशो नान्यथा, किञ्च स्याद्यर्थे पुंस्त्वादौ प्रतिज्ञायमाने विशेषाभावाद् वनादेरप्युपजातोऽसौ प्रत्ययःस्त्रीपुंसावभिदध्यात् लिङ्गं प्रति प्रकृतीनामौदासीन्यात् तस्मादसाधारणीभिः प्रकृतिभिरेव यथायथमभिधेयानि लिङ्गानि व्यवस्थापयितुं शक्यन्ते, न जातु साधारणेन प्रत्ययेन ।
एवं च प्रकृतीनां लिङ्गानुशिष्टिशास्त्राण्युपपद्यन्ते नान्यथेति । नाप्यभिहिते द्वितीयादिनिषेधार्थमुपक्रमः । असिद्धेषु हि साधनानि युज्यन्ते न जातु सिद्धेषु । नहि मिहिरमरीचिनिचयचुम्बिते वस्तुनि दुश्चक्षुषोऽपि भवति प्रदीपापेक्षा, सिद्धास्त्विह विवक्षितार्थाः ।कृत्तद्धितसमासाख्यातनिपातैः सामान्याभिधायिभिर्विशेषाणामनभिधानमिति चेत् सत्यप्यनभिहित इति विशेषणे विशेषाश्रयो द्वितीयादिरिह स्यादेव । सामान्याभिधाने विशेषाश्रयोऽसौ मा भूदिति वचनं चेत् कृतपूर्वी कटमिति कर्मणि ते दुष्यति, नापि कर्मादिकं प्रकृत्यर्थः संख्या स्याद्यर्थ इत्यभ्युपगमे हेतुफले पश्यामः । येनाभिहितकर्मादिगतसंख्याने स मा भूदिति तदाद्रियामहे । तथाहि अन्वयव्यतिरेकाभ्यां प्रतीत्यप्रतीती द्वयोरपि समाने तत् कुतः कर्मादिकं प्रकृत्यर्थः । स्याद्यर्थः संख्येति विवेकः । किं चाभिहितश्च कारकार्थः, प्रातिपदिकार्थः सम्पद्यत इति पातञ्जलाः पठन्ति । अतो हि अभिधेयेऽभिधानोपचारेण नपुंसकादित्यादिनिर्देशादिति भावः । 'कृतः कटः' इति कटात् प्रथमा प्रसजन्त्यन्तरङ्गाणां बाधिष्यते, नैषां प्रसजतीति चेत् कुतोऽन्यस्यामपोहितायामस्याः प्रवृत्तिरिति । 'कटं भीष्ममुदारम्' इत्यत्र तु कटाद् द्वितीयया भीष्मादिगतकर्मशक्तेरस्पर्शात् कुतोऽभिहितत्वमिष्टं चैकाधिकरणानामेका विभक्तिरिति !