________________
५६२
कातन्त्रव्याकरणम्
वार्त्तिककारस्य तु मते स्याद्यभिहितकर्मादौ द्वितीयादिः स्यादेव । स ह्येवमाह - तिङ्कृत्तद्धितसमासैरभिहिते द्वितीयादयो न भवन्तीति, तदा मनस्विगर्हितः पन्थाः समारोढुमसाम्प्रतमिति चिन्त्यम् | भाष्ये तु 'ओम् प्रणवः' इत्याचक्षते इति प्रयोगान्निपातेनापि कर्मणोऽभिधानमिष्टमिति लक्ष्यते ||२३|
२४. षष्ठ्यर्थे द्वितीया वा प्रतिभः
प्रतिभातेर्योगे षष्ठ्यर्थे द्वितीया वा भवति । प्राज्ञमर्थः प्रतिभाति, प्राज्ञस्य वा । 'अत्र चैष सकलेषु भाति मां प्रत्यशेषगुणबन्धुरर्हति' इति कर्मप्रवचनीयेन प्रतिना अयमारम्भस्तु प्रानं प्रतिभोऽर्थः । प्राज्ञं प्रतिभायेति “ उपसर्गे त्वातो डः " (४/२/५२) "क्त्वो यप् च” (४| ६ | ५५ ) यथा स्यादिति ||२४|
२५. समयानिकषर्तेऽन्तरेणहाधिग्विनान्तराभिः
एभिर्योगे षष्ठ्यर्थे द्वितीया भवति । समया गङ्गाम् । निकषा गङ्गाम् । ऋते विद्यामधनः शोच्यः । 'क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते' । अन्तरेण धनमविद्वान् शोच्यः । हा निःस्वान् | धिक् कृपणान् । 'बिना जायां नरो जाल्मो नारी च रमणं विना ' । अन्तरा च भ्रुवौ कूर्चम् | षष्ठ्यपवादत्वाद् मुदोऽन्तरा वपुषीति । तथा हा तात ! धिग् भ्रातः ! ।। २५ ।
२६. द्विरुपर्यधोऽधिभिः
द्विरुक्तैरुपर्यादिभिर्योगे षष्ठ्यर्थे द्वितीया भवति । उपर्युपरि गिरिं बलाका | अधोऽधो घनं बलाका: । अध्यधि शिखरं घनागमः । उपर्यधोऽधीनां सामीप्य इति नित्यं द्विः । द्विरिति किम् ? उपरि शैलस्य, अधो वृक्षस्य मद्यमम्लानामुपर्युपरि वर्तते ।
I
सर्वेषां अत्राता शरणं यातं यात्यधोऽधश्च दुर्गतेः ॥
प्रतिपदोक्तद्विर्वचनाश्रयणादिहातिशये द्विः ॥ २६ ॥ २७. तसोभयाभिपरिसर्वैः
तसन्तैरुभयादिभिर्योगे षष्ठ्यर्थे द्वितीया भवति । उभयतो ग्रामम् । अभितो ग्रामम् । परितो ग्रामम् । सर्वतो ग्रामम् । सर्वोभयाभ्यां तस् तद्धितः । 'परितः' इति सर्वतोऽर्थे निपातितः । 'अभितः' इत्युभयतोऽर्धे आभिमुख्ये च निपातः । तन्त्रान्तरे