________________
परिशिष्टम् -१
६६. नित्यमशिश्वी अशिशोर्नित्यमीभवति । न विद्यते शिशुरस्याः अशिश्वी जाया ॥६६।
६७. पतिवन्यन्तर्वन्यौ एतौ निपात्येते । पतिरस्या विद्यते पतिवनी स्त्री, पतिरिहोपयन्ता । अन्यत्र पतिमती सेना । अन्तरस्त्यस्यामिति अन्तर्वली गर्भिण्येव । मन्तुवन्त्वोर्वर्णविकारव्यत्ययौ ।। ६७।
६८. पृथ्यादयोऽपुंवच्च प्रायः एते निपात्यन्ते यथासंभवं पुंवच्च प्रायो निषिध्यते ।पृथ्वी, पृथिवी । पृथोरुकारस्यैव वा । वर्षाभ्वीत्यपि उदाहरन्ति, वर्षाभूवृन्दारिकेति पुंवच्चेच्छन्ति । लघ्वी, रथी । नृनरयो री । भोगवतीत्याख्यायाम् अन्तन्तविहितनदीकार्यनिषेधार्थश्च । गुरुरिनः पतिरस्याः गुर्विणी, गुरुं पतिमिन्वति प्रीणाति वा नामकाण्डेषु च पाठादेतत् प्रमाणम् । सरसी - रोदसीप्रभृतयोऽप्यत्रैव मन्तव्याः ।।६८।
६१. पुंयोगादज्येष्ठादिपालकात् ज्येष्ठादिपालकाभ्यामन्यस्मात् पुंयोगवृत्तादन्ताद् ईर्भवति । पुमानिहार्थादुपयन्ता । महामात्रस्य भार्या महामात्री, प्रष्ठस्य प्रष्ठी, गणकस्य गणकी | पुंयोगादिति किम् ? प्रजाता, प्रसूता । नैतौ जात्वपि भर्तरि वर्तेते । पत्युर्महामात्रादित्वेन तद्भार्यापि तथा व्यपदिश्यते । ज्येष्ठादिनिषेधः किम् ? ज्येष्ठस्य भार्या ज्येष्ठा | मध्यमस्य भार्या मध्यमा । पालकनिषेधः किम् ? गोपालिका, अट्टपालिका ।।६९ ।
७०. पूतक्रतुवृषाकप्यग्निकुसितकुसीदानामै च एषां पुंयोगवृत्तानामीप्रत्ययो भवति ।अन्तस्यैकारश्च ।पूतक्रतोर्भार्या पूतक्रतायी - "पूतक्रतायीमभ्येति सत्रपः किं न गोत्रभित्" इति भट्टिः । एवं वृषाकपायी, अग्नायी, कुसितायी, कुसीदायी । पुंयोगादित्येव - पूतकतुर्ब्राह्मणी ।।७०।
७१. मनोरौच्च या मनोः पुंयोगवृत्तादीर्भवति वा । तत्सन्नियोगेन ऐदौच्चान्त्यस्य । मनायी, मनावी, मनुः स्त्री ।।७१।