________________
५९६
कातन्त्रव्याकरणम्
७२. इन्द्रवरुणभवशर्वरुद्रमृडाचार्याणामानन्तश्च
एषां पुंयोगवृत्तानामीप्रत्ययो भवति आनन्तश्च । इन्द्राणी, वरुणानी, भवानी, शर्वाणी, रुद्राणी, मृडानी । आचार्यानी, इह णत्वं नास्ति || ७२ | ७३. मातुलोपाध्यायाभ्यां वा
पुंयोगवृत्ताभ्यामाभ्यामीप्रत्यये आनन्तो वा भवति । मातुलानी, मातुली । उपाध्यायानी, उपाध्यायी ।। ७३ ।
७४. अर्यक्षत्रियाभ्यां जातौ
जातावाभ्यामीप्रत्ययो भवति वा तत्सन्नियोगेनानन्तश्च । अर्याणी, अर्या । क्षत्रियाणी, क्षत्रिया | जाताविति किम् ? पुंयोगाद् अर्थी, क्षत्रिय ||७४ | ७५. यवात्तु दुष्टे
यवाद् दुष्टेऽर्थे ईप्रत्ययः आनन्तश्च भवति । दुष्टो यवो यवानी । तुशब्दो वानिवृत्त्यर्थः ।। ७५ ।
७६. यवनाल्लिप्याम्
लिप्यामर्थे यवनादीर्भवति आनन्तश्च । यवनानां लिपिर्यवनानी || ७६ ! ७७. महति हिमारण्यात्
हिमारण्याच्च महत्यर्थे ईरानन्तश्च भवति । महद् हिमं हिमानी, महदरण्यम् अरण्यानी || ७७ |
७८. गर्गादिदषावटयोः
प्रकृतमनुवर्तते । षान्तावटवर्जितस्य गगदियद् ईप्रत्ययो भवति । गार्गी, वात्सी । गगदिरिति किम् ? नैषध्या, कौशल्या । नादिकुर्विति रूढाण्ण्यः । अषावटयोरिति किम् ? गौकक्ष्या, पौतिमाष्या, शार्कराक्ष्या, आवट्या || ७८ |
७९. आयनश्च वा
गगदियदीर्भवति वा आयनश्च । गार्ग्यायणी, वात्स्यायनी, गौकक्षायणी, आवट्यायनी | बाग्रहणं षावटार्थम् । पक्षे गौकक्ष्या, आवट्या ।। ७९ ।