________________
५९७
परिशिष्टम् -१
८०. लोहितादेः लोहितादेान्नित्यम् ईर्भवति आयनश्चान्तः। लौहित्यायनी, बाभ्रव्यायणी, कात्यायनी, शांसित्यायनी, गर्गादौ लोहितादिसमाप्त्यर्थं शकलशब्दात् परो वृतशब्दः पठ्यते ।। ८०।
८१. कौरव्यासुरिमाण्डूकेभ्यः एभ्यः स्त्रियामीर्भवति आयनश्च । नादिकुर्विति कुरोः क्षत्रियाण्ण्यः । कुर्वादिभ्यः इति ब्राह्मणात् कौरव्यायणी । असुरादिण् - आसुरायणी । तद्धितश्चायमिष्यते इति इकारलोपः स्यादेव ! मण्डूकादण् – माण्डूकायनी || ८१।
८२. पाणिगृहीत्यूढायाम् ऊढा= यज्ञसंयोगेन भार्या कृता, तस्यां पाणिगृहीती भवति । पाणिर्गृहीतो यज्ञसंयोगेनास्याः पाणिगृहीती । ऊढायामिति किम् ? पाणिगृहीता चौरी ।। ८२।
८३. पत्युनश्च ऊढायामर्थे पत्युरीभवति नश्चान्तस्य | पुंवत्साम्यात् पतिरियमिति पत्नी । ऊढायामित्येव-पतिरियं स्त्री ग्रामस्य | पतिः स्त्रियामपि वर्तत एव, तत्रास्य ङवति नदीत्वेन भवितव्यमिति मतम् ।। ८३।
८४. वोत्तरपदस्य उत्तरपदस्य पत्युरीनश्चान्तस्य भवति वा । ग्रामस्य पतिः ग्रामपत्नी, ग्रामपतिः स्त्री ।। ८४।
८५. बहुव्रीहौ च बहुव्रीहौ च पत्युरीनश्चान्तस्य भवति वा । बहुव्रीहावेवोपसर्जनादिति नियमार्थम् । स्थूलः पतिरस्याः स्थूलपत्नी स्थूलपतिः। नियमः किम् ? निष्पतिः स्त्री ।। ८५ ।
८६. नित्यं समानैकवीरपिण्डपुत्रभ्रातृभ्यः समानादिपूर्वात् पत्युर्बहुव्रीहौ नित्यमीर्भवति नश्चान्तस्य । समानः पतिरस्याः सपत्नी, समानस्य सभावो वक्ष्यते । एवम् एकपत्नी, इयमूढा पतिव्रताऽप्युच्यते । वीरपत्नी, पिण्डपत्नी, पुत्रपत्नी, भ्रातृपली ।। ८६।
८७. ऊधसश्च ऊधसो बहुव्रीहावीर्भवति नश्चान्तस्य | घटोनी, कुण्डोध्नी गौः ।बहुव्रीहावित्येव - अत्यूधाः ।। ८७।